युधिष्ठिर उवाच 001
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम 001a
कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे 001c
सन्न्यस्यते यथात्मायं सन्न्यस्तात्मा यथा च यः 002a
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
जनकस्य च संवादं सुलभायाश्च भारत 003c
सन्न्यासफलिकः कश्चिद्बभूव नृपतिः पुरा 004a
मैथिलो जनको नाम धर्मध्वज इति श्रुतः 004c
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः 005a
इन्द्रियाणि समाधाय शशास वसुधामिमाम् 005c
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् 006a
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर 006c
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता 007a
महीमनुचचारैका सुलभा नाम भिक्षुकी 007c
तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः 008a
तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः 008c
सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया 009a
दर्शने जातसङ्कल्पा जनकस्य बभूव ह 009c
ततः सा विप्रहायाथ पूर्वरूपं हि योगतः 010a
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् 010c
चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी 011a
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा 011c
सा प्राप्य मिथिलां रम्यां समृद्धजनसङ्कुलाम् 012a
भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् 012c
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा 013a
केयं कस्य कुतो वेति बभूवागतविस्मयः 013c
ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् 014a
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् 014c
अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम् 015a
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी 015c
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया 016a
सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते 016c
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः 017a
सा स्म सञ्चोदयिष्यन्तं योगबन्धैर्बबन्ध ह 017c
जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन् 018a
प्रतिजग्राह भावेन भावमस्या नृपोत्तमः 018c
तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम् 019a
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके 019c
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि 020a
कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः 020c
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते 021a
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे 021c
छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः 022a
स त्वां सम्मन्तुमिच्छामि मानार्हासि मता हि मे 022c
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा 023a
यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु 023c
पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः 024a
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसम्मतः 024c
साङ्ख्यज्ञाने तथा योगे महीपालविधौ तथा 025a
त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः 025c
स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् 026a
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः 026c
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः 027a
श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः 027c
सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् 028a
मुक्तरागश्चराम्येकः पदे परमके स्थितः 028c
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः 029a
ज्ञानादेव च वैराग्यं जायते येन मुच्यते 029c
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् 030a
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा 030c
सेयं परमिका बुद्धिः प्राप्ता निर्द्वन्द्वता मया 031a
इहैव गतमोहेन चरता मुक्तसङ्गिना 031c
यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा 032a
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् 032c
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा 033a
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते 033c
तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा 034a
ज्ञानं कृतमबीजं मे विषयेषु न जायते 034c
नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे 035a
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः 035c
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् 036a
सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम 036c
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः 037a
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः 037c
मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः 038a
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् 038c
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः 039a
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः 039c
प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् 040a
तृतीयेयं समाख्याता निष्ठा तेन महात्मना 040c
यमे च नियमे चैव द्वेषे कामे परिग्रहे 041a
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः 041c
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् 042a
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे 042c
येन येन हि यस्यार्थः कारणेनेह कस्यचित् 043a
तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे 043c
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् 044a
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते 044c
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि 045a
राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना 045c
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् 046a
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः 046c
काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः 047a
लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः 047c
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् 048a
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् 048c
अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः 049a
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते 049c
आकिञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम् 050a
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते 050c
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे 051a
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् 051c
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः 052a
मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया 052c
सोऽहमेवङ्गतो मुक्तो जातास्थस्त्वयि भिक्षुकि 053a
अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम 053c
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः 054a
तवैतानि समस्तानि नियमश्चेति संशयः 054c
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् 055a
मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः 055c
न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् 056a
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना 056c
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः 057a
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् 057c
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा 058a
कस्य वा सन्निसर्गात्त्वं प्रविष्टा हृदयं मम 058c
वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् 059a
नावयोरेकयोगोऽस्ति मा कृथा वर्णसङ्करम् 059c
वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे 060a
अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसङ्करः 060c
सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् 061a
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसङ्करः 061c
अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् 062a
अगम्या परभार्येति चतुर्थो धर्मसङ्करः 062c
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि 063a
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः 063c
अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् 064a
यदि किञ्चिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् 064c
इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् 065a
दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् 065c
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः 066a
येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि 066c
तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि 067a
मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च 067c
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता 068a
भूयः सृजसि योगास्त्रं विषामृतमिवैकधा 068c
इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः 069a
अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः 069c
मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रमनुपालय 070a
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम 070c
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् 070e
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः 071a
तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् 071c
न राजानं मृषा गच्छेन्न द्विजातिं कथञ्चन 072a
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः 072c
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् 073a
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् 073c
अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता 074a
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् 074c
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः 075a
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः 075c
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः 076a
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत 076c
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना 077a
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् 077c
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः 078a
अपेतमुपपन्नार्थमष्टादशगुणान्वितम् 078c
सौक्ष्म्यं सङ्ख्याक्रमौ चोभौ निर्णयः सप्रयोजनः 079a
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप 079c
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् 080a
शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः 080c
ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते 081a
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते 081c
दोषाणां च गुणानां च प्रमाणं प्रविभागशः 082a
कञ्चिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम् 082c
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् 083a
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः 083c
धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः 084a
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः 084c
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते 085a
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते 085c
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप 086a
एकार्थसमवेतानि वाक्यं मम निशामय 086c
उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् 087a
नाश्लक्ष्णं न च सन्दिग्धं वक्ष्यामि परमं तव 087c
न गुर्वक्षरसम्बद्धं पराङ्मुखमुखं न च 088a
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् 088c
न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च 089a
न शेषं नानुकल्पेन निष्कारणमहेतुकम् 089c
कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा 090a
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथञ्चन 090c
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप 091a
सममेति विवक्षायां तदा सोऽर्थः प्रकाशते 091c
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते 092a
स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति 092c
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः 093a
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् 093c
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते 094a
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप 094c
तदर्थवदिदं वाक्यमुपेतं वाक्यसम्पदा 095a
अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि 095c
कासि कस्य कुतो वेति त्वयाहमभिचोदिता 096a
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु 096c
यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः 097a
सुश्लिष्टानि तथा राजन्प्राणिनामिह सम्भवः 097c
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च 098a
पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् 098c
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः 099a
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे 099c
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते 100a
तथैव व्यभिचारेण न वर्तन्ते परस्परम् 100c
संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः 100e
बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु 101a
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः 101c
यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः 101e
ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः 102a
विचारयति येनायं निश्चये साध्वसाधुनी 102c
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः 103a
येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति 103c
अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः 104a
महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते 104c
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः 105a
ममायमिति येनायं मन्यते न च मन्यते 105c
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः 106a
पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते 106c
गुणस्त्वेवापरस्तत्र सङ्घात इति षोडशः 107a
आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ 107c
सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये 108a
इति चैकोनविंशोऽयं द्वन्द्वयोग इति स्मृतः 108c
ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः 109a
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् 109c
विंशकश्चैष सङ्घातो महाभूतानि पञ्च च 110a
सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ 110c
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः 111a
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे 111c
एकविंशश्च दश च कलाः सङ्ख्यानतः स्मृताः 112a
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् 112c
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति 113a
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति 113c
अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम् 114a
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः 114c
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता 115a
अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः 115c
बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसम्भवाः 116a
यासामेव निपातेन कललं नाम जायते 116c
कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा 117a
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः 117c
सम्पूर्णे नवमे मासे जन्तोर्जातस्य मैथिल 118a
जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः 118c
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि 119a
कौमाररूपमापन्नं रूपतो नोपलभ्यते 119c
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् 120a
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते 120c
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे 121a
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते 121c
न चैषामप्ययो राजल्ँलक्ष्यते प्रभवो न च 122a
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः 122c
तस्याप्येवम्प्रभावस्य सदश्वस्येव धावतः 123a
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः 123c
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः 124a
सम्बन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह 124c
यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः 125a
भवत्येवं समुदयात्कलानामपि जन्तवः 125c
आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि 126a
एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि 126c
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि 126e
अथ मां कासि कस्येति किमर्थमनुपृच्छसि 127a
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल 127c
कासि कस्य कुतो वेति वचने किं प्रयोजनम् 127e
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे 128a
कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम् 128c
त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु 129a
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् 129c
प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि 130a
यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् 130c
तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप 131a
सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः 131c
तानि तान्यनुसन्दृश्य सङ्गस्थानान्यरिन्दम 132a
आत्मनात्मनि सम्पश्येत्किं तस्मिन्मुक्तलक्षणम् 132c
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् 133a
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु 133c
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह 134a
एकमेव स वै राजा पुरमध्यावसत्युत 134c
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति 135a
गृहे शयनमप्येकं निशायां यत्र लीयते 135c
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति 136a
तदनेन प्रसङ्गेन फलेनैवेह युज्यते 136c
एवमेवोपभोगेषु भोजनाच्छादनेषु च 137a
गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति 137c
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते 138a
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता 138c
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता 139a
मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता 139c
यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता 140a
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः 140c
स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः 141a
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः 141c
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च 142a
वदस्व शृणु चापीति विवशः कार्यते परैः 142c
अभिगम्याभिगम्यैनं याचन्ते सततं नराः 143a
न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् 143c
दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः 144a
क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः 144c
प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते 145a
भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते 145c
यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया 146a
तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् 146c
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही 147a
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः 147c
पुत्रा दारास्तथैवात्मा कोशो मित्राणि सञ्चयः 148a
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः 148c
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः 149a
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते 149c
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः 150a
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः 150c
द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः 151a
बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः 151c
तदल्पसुखमत्यर्थं बहुदुःखमसारवत् 152a
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् 152c
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे 153a
बलं कोशममात्यांश्च कस्यैतानि न वा नृप 153c
मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः 154a
सप्ताङ्गश्चक्रसङ्घातो राज्यमित्युच्यते नृप 154c
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः 155a
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः 155c
तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते 156a
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते 156c
सप्ताङ्गश्चापि सङ्घातस्त्रयश्चान्ये नृपोत्तम 157a
सम्भूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् 157c
यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् 158a
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः 158c
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् 159a
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् 159c
योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः 160a
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते 160c
साहमेतानि कर्माणि राज्यदुःखानि मैथिल 161a
समर्था शतशो वक्तुमथ वापि सहस्रशः 161c
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे 162a
न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि 162c
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः 163a
सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः 163c
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः 164a
छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप 164c
श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् 165a
अथ वा श्रुतसङ्काशं श्रुतमन्यच्छ्रुतं त्वया 165c
अथापीमासु सञ्ज्ञासु लौकिकीषु प्रतिष्ठसि 166a
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो मया 166c
सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया 167a
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः 167c
नियमो ह्येष धर्मेषु यतीनां शून्यवासिता 168a
शून्यमावासयन्त्या च मया किं कस्य दूषितम् 168c
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ 169a
न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप 169c
कुले महति जातेन ह्रीमता दीर्घदर्शिना 170a
नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् 170c
ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः 171a
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् 171c
तदेवमनुसन्दृश्य वाच्यावाच्यं परीक्षता 172a
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि 172c
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् 173a
तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल 173c
यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कञ्चन 174a
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा 174c
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् 175a
उभयोरन्तराले च वर्तसे मोक्षवातिकः 175c
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः 176a
भावाभावसमायोगे जायते वर्णसङ्करः 176c
वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः 177a
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते 177c
पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः 178a
आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् 178c
न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः 179a
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् 179c
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च 180a
परस्परपृथक्त्वाच्च कथं ते वर्णसङ्करः 180c
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा 181a
तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता 181c
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः 182a
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् 182c
द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः 183a
मम सत्रेषु पूर्वेषां चिता मघवता सह 183c
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे 184a
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् 184c
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी 185a
न धर्मसङ्करकरी स्वधर्मेऽस्मि धृतव्रता 185c
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी 186a
नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप 186c
मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी 187a
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता 187c
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः 188a
मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति 188c
यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत् 189a
तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् 189c
साहमासनदानेन वागातिथ्येन चार्चिता 190a
सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल 190c
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च 191a
श्रुत्वा नाधिजगौ राजा किञ्चिदन्यदतः परम् 191c