युधिष्ठिर उवाच 001
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ 001a
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् 001c
तपसा वा सुमहता कर्मणा वा श्रुतेन वा 002a
रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च 003c
वैदेहो जनको राजा महर्षिं वेदवित्तमम् 004a
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् 004c
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ 005a
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा 005c
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् 006a
निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथञ्चन 006c
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः 007a
सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः 007c
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा 008a
उह्यमानं निमज्जन्तमप्लवे कालसागरे 008c
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते 008e
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् 009a
पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः 009c
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् 009e
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः 010a
कालेन जाता जाता हि वायुनेवाभ्रसञ्चयाः 010c
जरामृत्यू हि भूतानां खादितारौ वृकाविव 011a
बलिनां दुर्बलानां च ह्रस्वानां महतामपि 011c
एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च 012a
कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् 012c
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा 013a
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि 013c
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च 014a
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च 014c