याज्ञवल्क्य उवाच 001
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप 001a
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप 001c
यथार्षेणेह विधिना चरतावमतेन ह 002a
मयादित्यादवाप्तानि यजूंषि मिथिलाधिप 002c
महता तपसा देवस्तपिष्ठः सेवितो मया 003a
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ 003c
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् 004a
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः 004c
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः 005a
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् 005c
ततो मां भगवानाह वितरिष्यामि ते द्विज 006a
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति 006c
ततो मामाह भगवानास्यं स्वं विवृतं कुरु 007a
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती 007c
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ 008a
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः 008c
ततो विदह्यमानं मामुवाच भगवान्रविः 009a
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि 009c
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः 010a
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज 010c
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ 011a
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति 011c
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् 012a
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत 012c
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ 013a
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् 013c
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता 014a
ओङ्कारमादितः कृत्वा मम देवी सरस्वती 014c
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् 015a
तपतां च वरिष्ठाय निषण्णस्तत्परायणः 015c
ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् 016a
चक्रे सपरिशेषं च हर्षेण परमेण ह 016c
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् 017a
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः 017c
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः 018a
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः 018c
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् 019a
स्ववेददक्षिणायाथ विमर्दे मातुलेन ह 019c
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै 020a
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः 020c
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ 021a
तथैव लोमहर्षाच्च पुराणमवधारितम् 021c
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् 022a
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप 022c
कर्तुं शतपथं वेदमपूर्वं कारितं च मे 023a
यथाभिलषितं मार्गं तथा तच्चोपपादितम् 023c
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् 024a
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः 024c
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः 025a
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् 025c
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् 026a
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत 026c
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः 027a
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव 027c
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा 027e
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च 028a
ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा 028c
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च 028e
वेद्यावेद्यं तथा राजन्नचलं चलमेव च 029a
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् 029c
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः 030a
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् 030c
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये 031a
बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः 031c
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् 032a
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् 032c
तत्रोपनिषदं चैव परिशेषं च पार्थिव 033a
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् 033c
चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी 034a
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता 034c
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा 035a
श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह 035c
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि 036a
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् 036c
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा 037a
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते 037c
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् 038a
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा 038c
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च 039a
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते 039c
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते 040a
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः 040c
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते 041a
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु 041c
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः 042a
अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः 042c
अजावुभावप्रजौ च अक्षयौ चाप्युभावपि 043a
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः 043c
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् 044a
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते 044c
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः 045a
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी 045c
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि 046a
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः 046c
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः 047a
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम 047c
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते 048a
वेदवेद्यं न जानीते वेदभारवहो हि सः 048c
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम 049a
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् 049c
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति 050a
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः 050c
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना 051a
यथास्य जन्मनिधने न भवेतां पुनः पुनः 051c
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् 052a
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः 052c
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप 053a
तदा स केवलीभूतः षड्विंशमनुपश्यति 053c
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः 054a
तस्य द्वावनुपश्येत तमेकमिति साधवः 054c
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् 055a
जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः 055c
विश्वावसुरुवाच 056
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम 056a
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति 056c
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् 057a
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः 057c
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च 058a
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 058c
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः 059a
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 059c
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् 060a
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः 060c
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः 061a
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत 061c
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण 062a
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् 062c
न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः 063a
कथ्यते देवलोके च पितृलोके च ब्राह्मण 063c
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः 064a
पतिश्च तपतां शश्वदादित्यस्तव भाषते 064c
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च 065a
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः 065c
निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् 066a
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा 066c
याज्ञवल्क्य उवाच 067
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम 067a
जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् 067c
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः 068a
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् 068c
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् 069a
साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् 069c
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ 070a
षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति 070c
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति 070e
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम 071a
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः 071c
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् 072a
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते 072c
सस्नेहः सहवासाच्च साभिमानश्च नित्यशः 072e
स निमज्जति कालस्य यदैकत्वं न बुध्यते 073a
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 073c
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः 074a
तदा स केवलीभूतः षड्विंशमनुपश्यति 074c
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः 075a
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः 075c
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् 076a
जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप 076c
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः 076e
यदा स केवलीभूतः षड्विंशमनुपश्यति 077a
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति 077c
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ 078a
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् 078c
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप 079a
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् 079c
विश्वावसुरुवाच 080
तथ्यं शुभं चैतदुक्तं त्वया भोः सम्यक्क्षेम्यं देवताद्यं यथावत् 080a
स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ते 080c
याज्ञवल्क्य उवाच 081
एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन 081a
तुष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा 081c
ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र 082a
तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै 082c
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च 083a
ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम् 083c
ज्ञानान्मोक्षो जायते पूरुषाणां नास्त्यज्ञानादेवमाहुर्नरेन्द्र 084a
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः 084c
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् 085a
श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् 085c
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म 086a
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् 086c
ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः 087a
नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः 087c
अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् 088a
तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् 088c
तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते 089a
तस्थौ ब्रह्मा तस्थिवांश्चापरो यस्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः 089c
यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व 090a
राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् 090c
भीष्म उवाच 091
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता 091a
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा 091c
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे 092a
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् 092c
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च 093a
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा 093c
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै 094a
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः 094c
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः 095a
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् 095c
अनन्तमिति कृत्वा स नित्यं केवलमेव च 096a
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च 096c
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् 097a
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप 097c
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः 098a
इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् 098c
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव 098e
दीयते यच्च लभते दत्तं यच्चानुमन्यते 099a
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह 099c
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै 099e
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् 100a
एवं मन्यस्व सततमन्यथा मा विचिन्तय 100c
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः 101a
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता 101c
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन 102a
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते 102c
तथैव महतः स्थानमाहङ्कारिकमेव च 103a
अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् 103c
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः 104a
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् 104c
एतन्मयाप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात् 105a
ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः 105c
दुर्गं जन्म निधनं चापि राजन्न भूतिकं ज्ञानविदो वदन्ति 106a
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ 106c
तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् 107a
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञमुपास्य वै तत्त्वमृषिर्भविष्यसि 107c
उपनिषदमुपाकरोत्तदा वै जनकनृपस्य पुरा हि याज्ञवल्क्यः 108a
यदुपगणितशाश्वताव्ययं तच्छुभममृतत्वमशोकमृच्छतीति 108c