याज्ञवल्क्य उवाच 001
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप 001a
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते 001c
जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् 002a
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् 002c
पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् 003a
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् 003c
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च 004a
बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च 004c
ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् 005a
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् 005c
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च 006a
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ 006c
ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा 007a
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर 007c
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः 008a
संवत्सरवियोगस्य सम्भवेयुः शरीरिणः 008c
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन 009a
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च 009c
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव 010a
आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः 010c
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा 011a
प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् 011c
दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते 012a
कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् 012c
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति 013a
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् 013c
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः 014a
देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् 014c
कर्णनासावनमनं दन्तदृष्टिविरागिता 015a
सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् 015c
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप 016a
मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् 016c
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् 017a
निशि चाहनि चात्मानं योजयेत्परमात्मनि 017c
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् 018a
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् 018c
सर्वगन्धान्रसांश्चैव धारयेत समाहितः 019a
तथा हि मृत्युं जयति तत्परेणान्तरात्मना 019c
ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ 020a
जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना 020c
गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् 021a
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः 021c