याज्ञवल्क्य उवाच 001
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे 001a
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम 001c
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् 002a
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ 002c
पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः 003a
वयं तु राजन्पश्याम एकमेव तु निश्चयात् 003c
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते 004a
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् 004c
रुद्रप्रधानानपरान्विद्धि योगान्परन्तप 005a
तेनैव चाथ देहेन विचरन्ति दिशो दश 005c
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै 006a
योगेन लोकान्विचरन्सुखं सन्न्यस्य चानघ 006c
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः 007a
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम 007c
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् 008a
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् 008c
धारणा चैव मनसः प्राणायामश्च पार्थिव 009a
प्राणायामो हि सगुणो निर्गुणं धारणं मनः 009c
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम 010a
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् 010c
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः 011a
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः 011c
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना 012a
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः 012c
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा 013a
शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च 013c
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल 014a
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह 014c
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप 015a
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि 015c
एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् 016a
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् 016c
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् 017a
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् 017c
युक्तस्य तु महाराज लक्षणान्युपधारयेत् 018a
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् 018c
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः 019a
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः 019c
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः 020a
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् 020c
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः 021a
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् 021c
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः 022a
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः 022c
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् 023a
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा 023c
स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च 024a
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् 024c
स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् 025a
महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम् 025c
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् 026a
कालेन महता राजञ्श्रुतिरेषा सनातनी 026c
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् 027a
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः 027c