याज्ञवल्क्य उवाच 001
न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते 001a
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे 001c
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा 002a
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः 002c
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते 003a
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः 003c
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः 004a
न मत्तः परमस्तीति नित्यमेवाभिमन्यते 004c
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् 005a
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा 005c
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः 006a
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते 006c
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते 007a
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते 007c
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता 008a
कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते 008c
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् 009a
कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता 009c
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च 010a
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् 010c
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः 011a
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम 011c
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा 012a
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः 012c
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः 013a
यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते 013c
अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा 014a
न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते 014c
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् 015a
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः 015c
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः 016a
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै 016c
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् 017a
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् 017c
एतेषां सह संवासं विवासं चैव नित्यशः 018a
यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः 018c
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् 019a
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः 019c
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् 020a
एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः 020c
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् 021a
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् 021c