याज्ञवल्क्य उवाच 001
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम 001a
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा 001c
शतधा सहस्रधा चैव तथा शतसहस्रधा 002a
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना 002c
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् 003a
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः 003c
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् 004a
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् 004c
द्वन्द्वमेषां त्रयाणां तु सन्निपातं च तत्त्वतः 005a
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे 005c
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा 006a
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च 006c
अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् 007a
रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते 007c
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते 008a
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् 008c
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् 009a
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् 009c
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् 010a
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् 010c
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप 011a
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते 011c
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव 012a
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि 012c
जनक उवाच 013
अनादिनिधनावेतावुभावेव महामुने 013a
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ 013c
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः 014a
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः 014c
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे 015a
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः 015c
अस्तित्वं केवलत्वं च विनाभावं तथैव च 016a
तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः 016c
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज 017a
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च 017c
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम 018a
विदितं सर्वमेतत्ते पाणावामलकं यथा 018c