याज्ञवल्क्य उवाच 001
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः 001a
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् 001c
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः 002a
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् 002c
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् 003a
अधिभूतं तथानन्दो दैवतं च प्रजापतिः 003c
हस्तावध्यात्ममित्याहुर्यथासाङ्ख्यनिदर्शनम् 004a
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् 004c
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् 005a
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् 005c
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 006a
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् 006c
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 007a
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् 007c
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् 008a
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् 008c
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् 009a
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् 009c
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः 010a
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् 010c
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् 011a
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् 011c
अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् 012a
अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् 012c
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् 013a
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् 013c
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता 014a
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् 014c
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया 015a
क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः 015c
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते 016a
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् 016c
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च 017a
सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता 017c
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता 018a
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् 018c
शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः 019a
इष्टानिष्टवियोगानां कृतानामविकत्थनम् 019c
दानेन चानुग्रहणमस्पृहार्थे परार्थता 020a
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः 020c
रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे 021a
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् 021c
परापवादेषु रतिर्विवादानां च सेवनम् 022a
अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् 022c
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा 023a
भेदः परुषता चैव कामक्रोधौ मदस्तथा 023c
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः 023e
तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् 024a
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसञ्ज्ञितम् 024c
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते 025a
तमसो लक्षणानीह भक्षाणामभिरोचनम् 025c
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता 026a
गन्धवासो विहारेषु शयनेष्वासनेषु च 026c
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः 027a
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता 027c
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः 027e