याज्ञवल्क्य उवाच 001
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च 001a
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु 001c
यथा संहरते जन्तून्ससर्ज च पुनः पुनः 002a
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च 002c
अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा 003a
चोदयामास भगवानव्यक्तोऽहङ्कृतं नरम् 003c
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः 004a
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् 004c
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा 005a
जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप 005c
एतदुन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम् 006a
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः 006c
जगद्दग्ध्वामितबलः केवलं जगतीं ततः 007a
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः 007c
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् 008a
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् 008c
तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् 009a
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा 009c
भक्षयामास बलवान्वायुरष्टात्मको बली 010a
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा 010c
तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना 011a
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् 011c
मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः 012a
अहङ्कारं महानात्मा भूतभव्यभविष्यवित् 012c
तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः 013a
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः 013c
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः 014a
सर्वतःश्रुतिमाल्ँलोके सर्वमावृत्य तिष्ठति 014c
हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः 015a
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः 015c
ततः समभवत्सर्वमक्षयाव्ययमव्रणम् 016a
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा 016c
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः 017a
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् 017c