याज्ञवल्क्य उवाच 001
अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे 001a
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते 001c
रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप 002a
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् 002c
ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् 003a
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम 003c
संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः 004a
सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः 004c
द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते 005a
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः 005c
एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः 006a
दश कल्पसहस्राणि पादोनान्यहरुच्यते 006c
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः 006e
सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा 007a
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः 007c
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम 007e
देवाः पितॄणां च सुता देवैर्लोकाः समावृताः 008a
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम 008c
परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा 009a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 009c
एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः 010a
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते 010c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः 011a
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 011c
यैराविष्टानि भूतानि अहन्यहनि पार्थिव 011e
अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः 012a
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा 012c
ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः 013a
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः 013c
त्रीणि कल्पसहस्राणि एतेषामहरुच्यते 014a
रात्रिरेतावती चैव मनसश्च नराधिप 014c
मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः 015a
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति 015c
चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा 016a
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति 016c
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते 016e
मनस्युपरते राजन्निन्द्रियोपरमो भवेत् 017a
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् 017c
एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् 017e
इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते 018a
एतद्विशन्ति भूतानि सर्वाणीह महायशाः 018c