युधिष्ठिर उवाच 001
धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् 001a
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः 001c
यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् 002a
शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति 002c
भीष्म उवाच 003
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् 003a
याज्ञवल्क्यस्य संवादं जनकस्य च भारत 003c
याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः 004a
पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः 004c
कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः 005a
किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् 005c
प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च 006a
वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः 006c
अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः 007a
तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् 007c
याज्ञवल्क्य उवाच 008
श्रूयतामवनीपाल यदेतदनुपृच्छसि 008a
योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः 008c
न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् 009a
पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः 009c
अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश 010a
अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः 010c
अव्यक्तं च महांश्चैव तथाहङ्कार एव च 011a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् 011c
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु 012a
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् 012c
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च 013a
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च 013c
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु 014a
बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल 014c
मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः 015a
त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः 015c
अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव 016a
प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः 016c
महतश्चाप्यहङ्कार उत्पद्यति नराधिप 017a
द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् 017c
अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् 018a
तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते 018c
मनसस्तु समुद्भूता महाभूता नराधिप 019a
चतुर्थं सर्गमित्येतन्मानसं परिचक्षते 019c
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च 020a
पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः 020c
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् 021a
सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् 021c
अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप 022a
सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् 022c
ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप 023a
अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः 023c
तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप 024a
नवमं सर्गमित्याहुरेतदार्जवकं बुधाः 024c
एतानि नव सर्गाणि तत्त्वानि च नराधिप 025a
चतुर्विंशतिरुक्तानि यथाश्रुति निदर्शनात् 025c
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः 026a
महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे 026c