भीष्म उवाच 001
मृगयां विचरन्कश्चिद्विजने जनकात्मजः 001a
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः 001c
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् 002a
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् 002c
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् 003a
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः 003c
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः 004a
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः 004c
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि 005a
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः 005c
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् 006a
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः 006c
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि 007a
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि 007c
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना 008a
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना 008c
असता धर्मकामेन विशुद्धं कर्म दुष्करम् 009a
सता तु धर्मकामेन सुकरं कर्म दुष्करम् 009c
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः 010a
ग्रामे वनसुखाचारो यथा वनचरस्तथा 010c
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः 011a
निवृत्तौ वा प्रवृत्तौ वा सम्प्रधार्य गुणागुणान् 011c
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता 012a
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः 012c
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् 013a
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् 013c
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः 014a
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः 014c
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते 015a
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते 015c
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् 016a
पात्रकर्मविशेषेण देशकालाववेक्ष्य च 016c
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् 017a
बहुयत्नेन महता पापनिर्हरणं तथा 017c
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् 018a
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः 018c
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे 019a
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् 019c
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय 020a
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् 020c
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव 021a
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर 021c
तेजसा शक्यते प्राप्तुमुपायसहचारिणा 022a
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा 022c
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः 023a
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् 023c
तपस्विनां धर्मवतां विदुषां चोपसेवनात् 024a
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे 024c
स तु स्वभावसम्पन्नस्तच्छ्रुत्वा मुनिभाषितम् 025a
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह 025c