पराशर उवाच 001
पिता सखायो गुरवः स्त्रियश्च न निर्गुणा नाम भवन्ति लोके 001a
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् 001c
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति 002a
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति 002c
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते 003a
प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् 003c
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् 004a
अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् 004c
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् 005a
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् 005c
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः 006a
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः 006c
पापात्पापसमाचारान्निहीनाच्च नराधिप 007a
पाप एव वधः प्रोक्तो नरकायेति निश्चयः 007c
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् 008a
सावशेषायुषं चापि कश्चिदेवापकर्षति 008c
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् 009a
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा 009c
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् 010a
निधनं शोभनं तात पुलिनेषु क्रियावताम् 010c
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति 011a
नाकारणात्तद्भवति कारणैरुपपादितम् 011c
तथा शरीरं भवति देहाद्येनोपपादितम् 012a
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् 012c
द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते 013a
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते 013c
सिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम् 014a
भूतानामिन्द्रियाणां च गुणानां च समागमम् 014c
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः 015a
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् 015c
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् 016a
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति 016c
भावितं कर्मयोगेन जायते तत्र तत्र ह 017a
इदं शरीरं वैदेह म्रियते यत्र तत्र ह 017c
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा 017e
न जायते तु नृपते कञ्चित्कालमयं पुनः 018a
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् 018c
स पुनर्जायते राजन्प्राप्येहायतनं नृप 019a
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः 019c
द्विविधानां च भूतानां जङ्गमाः परमा नृप 020a
जङ्गमानामपि तथा द्विपदाः परमा मताः 020c
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः 020e
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः 021a
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः 021c
जातमन्वेति मरणं नृणामिति विनिश्चयः 022a
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः 022c
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् 023a
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् 023c
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् 024a
मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः 024c
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः 025a
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते 025c
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः 026a
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि 026c
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप 027a
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् 027c
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् 028a
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि 028c
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्यं च भवेत यस्य 029a
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति 029c
अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च 030a
वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् 030c
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् 031a
चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् 031c
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते 032a
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः 032c
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो 033a
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् 033c
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः 034a
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते 034c
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति 035a
दीपोपमानि भूतानि यावदर्चिर्न नश्यति 035c
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत 036a
समदुःखसुखो भूत्वा स परत्र महीयते 036c
दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् 037a
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् 037c
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् 038a
यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः 038c
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः 039a
शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति 039c
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप 040a
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः 040c
भीष्म उवाच 041
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना 041a
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप 041c