जनक उवाच 001
वर्णो विशेषवर्णानां महर्षे केन जायते 001a
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर 001c
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः 002a
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः 002c
पराशर उवाच 003
एवमेतन्महाराज येन जातः स एव सः 003a
तपसस्त्वपकर्षेण जातिग्रहणतां गतः 003c
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः 004a
अतोऽन्यतरतो हीनादवरो नाम जायते 004c
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे 005a
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः 005c
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः 006a
ऊरुजा धनिनो राजन्पादजाः परिचारकाः 006c
चतुर्णामेव वर्णानामागमः पुरुषर्षभ 007a
अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः 007c
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा 008a
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः 008c
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप 009a
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् 009c
जनक उवाच 010
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् 010a
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम 010c
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः 011a
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे 011c
पराशर उवाच 012
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना 012a
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् 012c
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह 013a
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः 013c
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः 014a
वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः 014c
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः 015a
आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च 015c
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् 016a
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि 016c
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव 017a
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च 017c
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव 018a
नामधेयानि तपसा तानि च ग्रहणं सताम् 018c
जनक उवाच 019
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम 019a
तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि 019c
पराशर उवाच 020
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप 020a
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना 020c
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि 021a
द्विजानां परिचर्या च शूद्रकर्म नराधिप 021c
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः 022a
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे 022c
आनृशंस्यमहिंसा चाप्रमादः संविभागिता 023a
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च 023c
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता 024a
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप 024c
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः 025a
अत्र तेषामधीकारो धर्मेषु द्विपदां वर 025c
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः 026a
उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु 026c
न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा 027a
श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् 027c
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः 028a
अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् 028c
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः 029a
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः 029c
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः 030a
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते 030c
जनक उवाच 031
किं कर्म दूषयत्येनमथ जातिर्महामुने 031a
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि 031c
पराशर उवाच 032
असंशयं महाराज उभयं दोषकारकम् 032a
कर्म चैव हि जातिश्च विशेषं तु निशामय 032c
जात्या च कर्मणा चैव दुष्टं कर्म निषेवते 033a
जात्या दुष्टश्च यः पापं न करोति स पूरुषः 033c
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् 034a
कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम् 034c
जनक उवाच 035
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम 035a
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा 035c
पराशर उवाच 036
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि 036a
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा 036c
सन्न्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः 037a
नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् 037c
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः 038a
प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः 038c
सर्वे वर्णा धर्मकार्याणि सम्यक्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा 039a
त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः 039c