पराशर उवाच 001
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः 001a
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु 001c
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते 002a
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः 002c
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च 003a
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै 003c
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः 004a
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः 004c
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् 005a
मोहजाता रतिर्नाम समुपैति नराधिप 005c
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः 006a
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति 006c
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् 007a
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति 007c
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः 008a
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते 008c
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् 009a
करोति येन भोगी स्यामिति तस्माद्विनश्यति 009c
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् 010a
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् 010c
स्नेहायतननाशाच्च धननाशाच्च पार्थिव 011a
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति 011c
निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्रदर्शनम् 012a
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति 012c
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् 013a
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति 013c
तपः सर्वगतं तात हीनस्यापि विधीयते 014a
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् 014c
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः 015a
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव 015c
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः 016a
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः 016c
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः 017a
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः 017c
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा 018a
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा 018c
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः 019a
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् 019c
कौशिकानि च वस्त्राणि शुभान्याभरणानि च 020a
वाहनासनयानानि सर्वं तत्तपसः फलम् 020c
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः 021a
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् 021c
शयनानि च मुख्यानि भोज्यानि विविधानि च 022a
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् 022c
नाप्राप्यं तपसा किञ्चित्त्रैलोक्येऽस्मिन्परन्तप 023a
उपभोगपरित्यागः फलान्यकृतकर्मणाम् 023c
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् 024a
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम 024c
असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः 025a
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता 025c
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति 026a
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् 026c
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते 027a
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् 027c
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते 028a
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः 028c
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् 029a
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् 029c
धर्मे तपसि दाने च विचिकित्सास्य जायते 030a
स कृत्वा पापकान्येव निरयं प्रतिपद्यते 030c
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम 031a
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः 031c
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता 032a
रसने दर्शने घ्राणे श्रवणे च विशाम्पते 032c
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः 033a
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् 033c
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः 034a
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते 034c
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा 035a
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः 035c
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् 036a
धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् 036c
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् 037a
तेषां नान्यदृते लोके तपसः कर्म विद्यते 037c
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् 038a
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप 038c
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् 039a
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् 039c