पराशर उवाच 001
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः 001a
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः 001c
स्वल्पाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः 001e
नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूषुरुच्यते 002a
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतति द्विजः 002c
शूद्रकर्मा यदा तु स्यात्तदा पतति वै द्विजः 002e
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् 003a
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते 003c
रङ्गावतरणं चैव तथा रूपोपजीवनम् 004a
मद्यमांसोपजीव्यं च विक्रयो लोहचर्मणोः 004c
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् 005a
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः 005c
संसिद्धः पुरुषो लोके यदाचरति पापकम् 006a
मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते 006c
श्रूयन्ते हि पुराणे वै प्रजा धिग्दण्डशासनाः 007a
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः 007c
धर्म एव सदा नॄणामिह राजन्प्रशस्यते 008a
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि 008c
तं धर्ममसुरास्तात नामृष्यन्त जनाधिप 009a
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः 009c
तेषां दर्पः समभवत्प्रजानां धर्मनाशनः 010a
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत 010c
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् 011a
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत 011c
ततो मोहपरीतास्ते नापश्यन्त यथा पुरा 012a
परस्परावमर्देन वर्तयन्ति यथासुखम् 012c
तान्प्राप्य तु स धिग्दण्डो नकारणमतोऽभवत् 013a
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह 013c
एतस्मिन्नेव काले तु देवा देववरं शिवम् 014a
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् 014c
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ 015a
तिस्रोऽप्येकेन बाणेन देवाप्यायिततेजसा 015c
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः 016a
देवतानां भयकरः स हतः शूलपाणिना 016c
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः 017a
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा 017c
ततोऽभ्यषिञ्चन्राज्येन देवानां दिवि वासवम् 018a
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे 018c
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः 019a
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् 019c
महाकुलेषु ये जाता वृत्ताः पूर्वतराश्च ये 020a
तेषामथासुरो भावो हृदयान्नापसर्पति 020c
तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः 021a
आसुराण्येव कर्माणि न्यषेवन्भीमविक्रमाः 021c
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च 022a
भजन्ते तानि चाद्यापि ये बालिशतमा नराः 022c
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः 023a
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् 023c
न सङ्करेण द्रविणं विचिन्वीत विचक्षणः 024a
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते 024c
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः 025a
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय 025c
इष्टानिष्टसमायोगो वैरं सौहार्दमेव च 026a
अथ जातिसहस्राणि बहूनि परिवर्तते 026c
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन 027a
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते 027c
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः 028a
न तथान्येषु भूतेषु मनुष्यरहितेष्विह 028c
धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा 029a
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् 029c
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै 030a
नानृतं चैव भवति तदा कल्याणमृच्छति 030c