पराशर उवाच 001
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना 001a
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा 001c
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा 002a
न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् 002c
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः 003a
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः 003c
यथोदयगिरौ द्रव्यं सन्निकर्षेण दीप्यते 004a
तथा सत्सन्निकर्षेण हीनवर्णोऽपि दीप्यते 004c
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् 005a
तादृशं कुरुते रूपमेतदेवमवैहि मे 005c
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन 006a
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् 006c
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः 007a
यश्चिनोति शुभान्येव स भद्राणीह पश्यति 007c
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् 008a
न तत्सेवेत मेधावी न तद्धितमिहोच्यते 008c
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता 009a
स शब्दमात्रफलभाग्राजा भवति तस्करः 009c
स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् 010a
धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् 010c
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् 011a
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः 011c
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः 012a
शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति 012c
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः 013a
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः 013c
तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते 014a
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः 014c
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः 015a
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते 015c
प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः 016a
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः 016c
सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप 017a
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् 017c
अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् 018a
याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः 018c
अवज्ञया दीयते यत्तथैवाश्रद्धयापि च 019a
तदाहुरधमं दानं मुनयः सत्यवादिनः 019c
अतिक्रमे मज्जमानो विविधेन नरः सदा 020a
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् 020c
दमेन शोभते विप्रः क्षत्रियो विजयेन तु 021a
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते 021c