पराशर उवाच 001
कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति 001a
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना 001c
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् 002a
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् 002c
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ 003a
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः 003c
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् 004a
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः 004c
न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् 005a
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् 005c
अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा 006a
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् 006c
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना 007a
फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ 007c
तैरेव फलपत्रैश्च स माठरमतोषयत् 008a
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः 008c
देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा 009a
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् 009c
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा 010a
पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च 010c
वाचः शेषावहार्येण पालनेनात्मनोऽपि च 011a
यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः 011c
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः 012a
सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः 012c
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् 013a
ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः 013c
गतः शुक्रत्वमुशना देवदेवप्रसादनात् 014a
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः 014c
असितो देवलश्चैव तथा नारदपर्वतौ 015a
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान् 015c
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च 016a
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः 016c
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः 017a
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः 017c
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह 018a
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् 018c
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् 019a
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया 019c
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः 020a
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो 020c
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते 021a
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् 021c
अग्निरात्मा च माता च पिता जनयिता तथा 022a
गुरुश्च नरशार्दूल परिचर्या यथातथम् 022c
मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् 023a
दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः 023c