पराशर उवाच 001
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः 001a
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् 001c
सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते 002a
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् 002c
आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशाम्पते 003a
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा 003c
वर्णेभ्योऽपि परिभ्रष्टः स वै सम्मानमर्हति 004a
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते 004c
वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा 005a
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा 005c
अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् 006a
पापं हि कर्म फलति पापमेव स्वयं कृतम् 006c
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् 006e
पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् 007a
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा 007c
किङ्कष्टमनुपश्यामि फलं पापस्य कर्मणः 008a
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते 008c
प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते 009a
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते 009c
विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् 010a
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे 010c
स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति 011a
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् 011c
अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति 012a
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः 012c
तथा कामकृतं चास्य विहिंसैवापकर्षति 013a
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः 013c
अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् 014a
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् 014c
यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् 015a
बुद्धियुक्तानि तानीह कृतानि मनसा सह 015c
भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम् 016a
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा 016c
कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा 017a
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् 017c
सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः 018a
करोति यः शुभं कर्म स वै भद्राणि पश्यति 018c
नवे कपाले सलिलं सन्न्यस्तं हीयते यथा 019a
नवेतरे तथाभावं प्राप्नोति सुखभावितम् 019c
सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते 020a
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा 020c
एवं कर्माणि यानीह बुद्धियुक्तानि भूपते 021a
न समानीह हीनानि तानि पुण्यतमान्यपि 021c
राज्ञा जेतव्याः सायुधाश्चोन्नताश्च सम्यक्कर्तव्यं पालनं च प्रजानाम् 022a
अग्निश्चेयो बहुभिश्चापि यज्ञैरन्ते मध्ये वा वनमाश्रित्य स्थेयम् 022c
दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत् 023a
गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र 023c