युधिष्ठिर उवाच 001
अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे 001a
न तृप्याम्यमृतस्येव वचसस्ते पितामह 001c
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम 002a
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद 002c
भीष्म उवाच 003
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः 003a
पराशरं महात्मानं पप्रच्छ जनको नृपः 003c
किं श्रेयः सर्वभूतानामस्मिल्ँलोके परत्र च 004a
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे 004c
ततः स तपसा युक्तः सर्वधर्मविधानवित् 005a
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् 005c
धर्म एव कृतः श्रेयानिह लोके परत्र च 006a
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः 006c
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते 007a
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम 007c
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते 007e
चतुर्विधा हि लोकस्य यात्रा तात विधीयते 008a
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते 008c
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः 009a
दशार्धप्रविभक्तानां भूतानां बहुधा गतिः 009c
सौवर्णं राजतं वापि यथा भाण्डं निषिच्यते 010a
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः 010c
नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते 011a
सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः 011c
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् 012a
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः 012c
प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः 013a
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् 013c
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः 014a
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् 014c
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् 015a
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते 015c
निरन्तरं च मिश्रं च फलते कर्म पार्थिव 016a
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते 016c
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति 017a
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते 017c
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते 018a
सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप 018c
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता 019a
ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः 019c
दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् 020a
नित्यं मनःसमाधाने प्रयतेत विचक्षणः 020c
नायं परस्य सुकृतं दुष्कृतं वापि सेवते 021a
करोति यादृशं कर्म तादृशं प्रतिपद्यते 021c
सुखदुःखे समाधाय पुमानन्येन गच्छति 022a
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव 022c
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः 023a
यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति 023c
भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश्च 024a
विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा 024c
रागी मुक्तः पचमानोऽऽत्महेतोर्मूर्खो वक्ता नृपहीनं च राष्ट्रम् 025a
एते सर्वे शोच्यतां यान्ति राजन्यश्चायुक्तः स्नेहहीनः प्रजासु 025c