युधिष्ठिर उवाच 001
तिष्ठते मे सदा तात कौतूहलमिदं हृदि 001a
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह 001c
कथं देवर्षिरुशना सदा काव्यो महामतिः 002a
असुराणां प्रियकरः सुराणामप्रिये रतः 002c
वर्धयामास तेजश्च किमर्थममितौजसाम् 003a
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः 003c
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः 004a
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे 004c
न याति च स तेजस्वी मध्येन नभसः कथम् 005a
एतदिच्छामि विज्ञातुं निखिलेन पितामह 005c
भीष्म उवाच 006
शृणु राजन्नवहितः सर्वमेतद्यथातथम् 006a
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ 006c
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः 007a
असुराणां प्रियकरो निमित्ते करुणात्मके 007c
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च 008a
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः 008c
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः 009a
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु 009c
हृते धने ततः शर्म न लेभे धनदस्तथा 010a
आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम् 010c
निवेदयामास तदा शिवायामिततेजसे 011a
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे 011c
कुबेर उवाच 012
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु 012a
योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः 012c
भीष्म उवाच 013
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः 013a
संरक्तनयनो राजञ्शूलमादाय तस्थिवान् 013c
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम् 014a
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम् 014c
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः 015a
गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः 015c
सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम् 016a
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत 016c
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना 017a
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् 017c
आनतेनाथ शूलेन पाणिनामिततेजसा 018a
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः 018c
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः 019a
आस्यं विवृत्य ककुदी पाणिं सम्प्राक्षिपच्छनैः 019c
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः 020a
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः 020c
युधिष्ठिर उवाच 021
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः 021a
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः 021c
भीष्म उवाच 022
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः 022a
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च 022c
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात् 023a
ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत 023c
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम् 024a
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः 024c
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः 025a
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा 025c
स तेनाढ्यो महायोगी तपसा च धनेन च 026a
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् 026c
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् 027a
उशना तु समुद्विग्नो निलिल्ये जठरे ततः 027c
तुष्टाव च महायोगी देवं तत्रस्थ एव च 028a
निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत 028c
उशना तु तदोवाच जठरस्थो महामुनिः 029a
प्रसादं मे कुरुष्वेति पुनः पुनररिन्दम 029c
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् 030a
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुङ्गवः 030c
अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः 031a
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा 031c
स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् 032a
कार्येण तेन नभसो नागच्छत च मध्यतः 032c
निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा 033a
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः 033c
न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम् 034a
पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः 034c
देव्युवाच 035
हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः 035a
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति 035c
भीष्म उवाच 036
ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत् 036a
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः 036c
ततः प्रणम्य वरदं देवं देवीमुमां तथा 037a
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः 037c
एतत्ते कथितं तात भार्गवस्य महात्मनः 038a
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि 038c