युधिष्ठिर उवाच 001
कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः 001a
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 002a
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते 002c
सगर उवाच 003
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते 003a
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् 003c
भीष्म उवाच 004
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः 004a
विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत् 004c
सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति 005a
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः 005c
सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम् 006a
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते 006c
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम 007a
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता 007c
सम्भाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च 008a
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् 008c
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् 009a
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च 009c
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् 010a
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि 010c
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् 011a
उपपत्त्योपलब्धेषु लाभेषु च समो भव 011c
एष तावत्समासेन तव सङ्कीर्तितो मया 012a
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु 012c
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः 013a
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः 013c
आहारसञ्चयाश्चैव तथा कीटपिपीलिकाः 014a
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः 014c
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना 015a
इमे मया विनाभूता भविष्यन्ति कथं त्विति 015c
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते 016a
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति 016c
भोजनाच्छादने चैव मात्रा पित्रा च सङ्ग्रहम् 017a
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा 017c
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् 018a
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः 018c
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा 019a
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः 019c
स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः 020a
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना 020c
जीवन्तमपि चैवैनं भरणे रक्षणे तथा 021a
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि 021c
यदा मृतश्च स्वजनं न ज्ञास्यसि कथञ्चन 022a
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना 022c
मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः 023a
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः 023c
एवं विजानल्ँलोकेऽस्मिन्कः कस्येत्यभिनिश्चितः 024a
मोक्षे निवेशय मनो भूयश्चाप्युपधारय 024c
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः 025a
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः 025c
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः 026a
न प्रमाद्यति सम्मोहात्सततं मुक्त एव सः 026c
दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा 027a
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते 027c
आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः 028a
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः 028c
सम्भवं च विनाशं च भूतानां चेष्टितं तथा 029a
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः 029c
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु 030a
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते 030c
मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम् 031a
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते 031c
यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते 032a
यश्चाप्यल्पेन सन्तुष्टो लोकेऽस्मिन्मुक्त एव सः 032c
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति 033a
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः 033c
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः 034a
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः 034c
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च 035a
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः 035c
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति 036a
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः 036c
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ 037a
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः 037c
रक्तमूत्रपुरीषाणां दोषाणां सञ्चयं तथा 038a
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते 038c
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च 039a
कुब्जभावं च जरया यः पश्यति स मुच्यते 039c
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा 040a
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते 040c
गतानृषींस्तथा देवानसुरांश्च तथा गतान् 041a
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते 041c
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः 042a
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते 042c
अर्थांश्च दुर्लभाल्ँलोके क्लेशांश्च सुलभांस्तथा 043a
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते 043c
अपत्यानां च वैगुण्यं जनं विगुणमेव च 044a
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् 044c
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः 045a
असारमिव मानुष्यं सर्वथा मुक्त एव सः 045c
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् 046a
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा 046c
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः 047a
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः 047c