युधिष्ठिर उवाच 001
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः 001a
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह 001c
भीष्म उवाच 002
गुरुपूजा च सततं वृद्धानां पर्युपासनम् 002a
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
गालवस्य च संवादं देवर्षेर्नारदस्य च 003c
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम् 004a
श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत् 004c
यैः कैश्चित्सम्मतो लोके गुणैस्तु पुरुषो नृषु 005a
भवत्यनपगान्सर्वांस्तान्गुणाल्ँलक्षयाम्यहम् 005c
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति 006a
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् 006c
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः 007a
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति 007c
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः 008a
इदं श्रेय इदं श्रेय इति नानाप्रधाविताः 008c
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः 009a
स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे 009c
शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा 010a
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् 010c
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम् 011a
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः 011c
नारद उवाच 012
आश्रमास्तात चत्वारो यथासङ्कल्पिताः पृथक् 012a
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव 012c
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः 013a
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक् 013c
नयन्ति चैव ते सम्यगभिप्रेतमसंशयम् 013e
ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम् 014a
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् 014c
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् 015a
सङ्ग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः 015c
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता 016a
सद्भिश्च समुदाचारः श्रेय एतदसंशयम् 016c
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् 017a
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् 017c
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि 018a
असन्त्यागश्च भृत्यानां श्रेय एतदसंशयम् 018c
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् 019a
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् 019c
अहङ्कारस्य च त्यागः प्रणयस्य च निग्रहः 020a
सन्तोषश्चैकचर्या च कूटस्थं श्रेय उच्यते 020c
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च 021a
विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम् 021c
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् 022a
नात्यर्थमुपसेवेत श्रेयसोऽर्थी परन्तप 022c
नक्तञ्चर्या दिवास्वप्नमालस्यं पैशुनं मदम् 023a
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत् 023c
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया 024a
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात् 024c
निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविनो नराः 025a
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् 025c
अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात् 026a
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः 026c
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् 027a
विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः 027c
अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः 028a
तथैवाव्याहरन्भाति विमलो भानुरम्बरे 028c
एवमादीनि चान्यानि परित्यक्तानि मेधया 029a
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च 029c
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया 030a
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते 030c
असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति 031a
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् 031c
मूढानामवलिप्तानामसारं भाषितं बहु 032a
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् 032c
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् 033a
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम् 033c
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः 034a
ज्ञानवानपि मेधावी जडवल्लोकमाचरेत् 034c
ततो वासं परीक्षेत धर्मनित्येषु साधुषु 035a
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च 035c
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् 036a
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथञ्चन 036c
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः 037a
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् 037c
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा 038a
तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः 038c
अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः 039a
भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम् 039c
यत्रागमयमानानामसत्कारेण पृच्छताम् 040a
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् 040c
शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता 041a
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् 041c
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् 042a
आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः 042c
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः 043a
प्रदीप्तमिव शैलान्तं कस्तं देशं न सन्त्यजेत् 043c
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः 044a
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु 044c
धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः 045a
न ताननुवसेज्जातु ते हि पापकृतो जनाः 045c
कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः 046a
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव 046c
येन खट्वां समारूढः कर्मणानुशयी भवेत् 047a
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः 047c
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः 048a
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् 048c
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः 049a
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् 049c
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः 050a
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् 050c
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् 051a
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् 051c
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः 052a
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् 052c
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु 053a
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु 053c
उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु 054a
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् 054c
यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता 055a
अपास्य कामान्कामेशो वसेत्तत्राविचारयन् 055c
तथाशीला हि राजानः सर्वान्विषयवासिनः 056a
श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते 056c
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् 057a
न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः 057c
एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः 058a
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति 058c