युधिष्ठिर उवाच 001
शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा 001a
उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 002a
नारदस्य च संवादं समङ्गस्य च भारत 002c
नारद उवाच 003
उरसेव प्रणमसे बाहुभ्यां तरसीव च 003a
सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे 003c
उद्वेगं नेह ते किञ्चित्सुसूक्ष्ममपि लक्षये 004a
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे 004c
समङ्ग उवाच 005
भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद 005a
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् 005c
उपक्रमानहं वेद पुनरेव फलोदयान् 006a
लोके फलानि चित्राणि ततो न विमना ह्यहम् 006c
अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद 007a
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः 007c
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः 008a
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय 008c
सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा 009a
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः 009c
यदा न शोचेमहि किं नु न स्याद्धर्मेण वा नारद कर्मणा वा 010a
कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति 010c
यस्मै प्रज्ञां कथयन्ते मनुष्याः प्रज्ञामूलो हीन्द्रियाणां प्रसादः 011a
मुह्यन्ति शोचन्ति यदेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य 011c
मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः 012a
न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव 012c
भावात्मकं सम्परिवर्तमानं न मादृशः सञ्ज्वरं जातु कुर्यात् 013a
इष्टान्भोगान्नानुरुध्येत्सुखं वा न चिन्तयेद्दुःखमभ्यागतं वा 013c
समाहितो न स्पृहयेत्परेषां नानागतं नाभिनन्देत लाभम् 014a
न चापि हृष्येद्विपुलेऽर्थलाभे तथार्थनाशे च न वै विषीदेत् 014c
न बान्धवा न च वित्तं न कौली न च श्रुतं न च मन्त्रा न वीर्यम् 015a
दुःखात्त्रातुं सर्व एवोत्सहन्ते परत्र शीले न तु यान्ति शान्तिम् 015c
नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम् 016a
धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम् 016c
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः 017a
उत्सेको नरकायैव तस्मात्तं सन्त्यजाम्यहम् 017c
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः 018a
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् 018c
अर्थकामौ परित्यज्य विशोको विगतज्वरः 019a
तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम् 019c
न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन 020a
पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम् 020c
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् 021a
तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते 021c