युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद 001a
अस्ति वृत्रवधादेव विवक्षा मम जायते 001c
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप 002a
निहतो वासवेनेह वज्रेणेति ममानघ 002c
कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः 003a
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो 003c
भीष्म उवाच 004
शृणु राजञ्ज्वरस्येह सम्भवं लोकविश्रुतम् 004a
विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत 004c
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् 005a
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् 005c
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत 005e
तत्र देवो गिरितटे हेमधातुविभूषिते 006a
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह 006c
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ 007a
तथा देवा महात्मानो वसवश्च महौजसः 007c
तथैव च महात्मानावश्विनौ भिषजां वरौ 008a
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः 008c
यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः 009a
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे 009c
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ 010a
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः 010c
ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः 011a
सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः 011c
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः 012a
महादेवं पशुपतिं पर्युपासन्त भारत 012c
भूतानि च महाराज नानारूपधराण्यथ 013a
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः 013c
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः 014a
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः 014c
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः 015a
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा 015c
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा 016a
पर्युपासत तं देवं रूपिणी कुरुनन्दन 016c
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः 017a
देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत 017c
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः 018a
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत 018c
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः 019a
गमनाय समागम्य बुद्धिमापेदिरे तदा 019c
ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः 020a
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः 020c
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा 021a
उवाच वचनं साध्वी देवं पशुपतिं पतिम् 021c
भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः 022a
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् 022c
महेश्वर उवाच 023
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः 023a
हयमेधेन यजते तत्र यान्ति दिवौकसः 023c
उमा उवाच 024
यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि 024a
केन वा प्रतिषेधेन गमनं ते न विद्यते 024c
महेश्वर उवाच 025
सुरैरेव महाभागे सर्वमेतदनुष्ठितम् 025a
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः 025c
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि 026a
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः 026c
उमा उवाच 027
भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः 027a
अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया 027c
अनेन ते महाभाग प्रतिषेधेन भागतः 028a
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ 028c
भीष्म उवाच 029
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् 029a
तूष्णीम्भूताभवद्राजन्दह्यमानेन चेतसा 029c
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् 030a
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् 030c
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः 031a
तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा 031c
सहसा घातयामास देवदेवः पिनाकधृक् 031e
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे 032a
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् 032c
केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः 033a
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् 033c
ततः स यज्ञो नृपते वध्यमानः समन्ततः 034a
आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा 034c
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः 035a
धनुरादाय बाणं च तदान्वसरत प्रभुः 035c
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः 036a
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह 036c
तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि 037a
प्रादुर्बभूव सुमहानग्निः कालानलोपमः 037c
तत्र चाजायत तदा पुरुषः पुरुषर्षभ 038a
ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः 038c
ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च 039a
करालः कृष्णवर्णश्च रक्तवासास्तथैव च 039c
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः 040a
देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश 040c
तेन तस्मिन्विचरता पुरुषेण विशाम्पते 041a
पृथिवी व्यचलद्राजन्नतीव भरतर्षभ 041c
हाहाभूते प्रवृत्ते तु नादे लोकभयङ्करे 042a
पितामहो महादेवं दर्शयन्प्रत्यभाषत 042c
भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो 043a
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया 043c
इमा हि देवताः सर्वा ऋषयश्च परन्तप 044a
तव क्रोधान्महादेव न शान्तिमुपलेभिरे 044c
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम 045a
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति 045c
एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो 046a
समर्था सकला पृथ्वी बहुधा सृज्यतामयम् 046c
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते 047a
भगवन्तं तथेत्याह ब्रह्माणममितौजसम् 047c
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक् 048a
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः 048c
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा 049a
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक 049c
शीर्षाभितापो नागानां पर्वतानां शिलाजतुः 050a
अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च 050c
खोरकः सौरभेयाणामूषरं पृथिवीतले 051a
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् 051c
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् 052a
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना 052c
अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् 053a
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः 053c
शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते 054a
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः 054c
मरणे जन्मनि तथा मध्ये चाविशते नरम् 054e
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः 055a
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः 055c
अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः 056a
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् 056c
प्रविश्य वज्रो वृत्रं तु दारयामास भारत 057a
दारितश्च स वज्रेण महायोगी महासुरः 057c
जगाम परमं स्थानं विष्णोरमिततेजसः 057e
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा 058a
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् 058c
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया 059a
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते 059c
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः 060a
विमुक्तरोगः स सुखी मुदा युतो लभेत कामान्स यथामनीषितान् 060c