युधिष्ठिर उवाच 001
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः 001a
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी 001c
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः 002a
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ 002c
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत 003a
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् 003c
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ 004a
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये 004c
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ 005a
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः 005c
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह 006a
विस्तरेण महाबाहो परं कौतूहलं हि मे 006c
भीष्म उवाच 007
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा 007a
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् 007c
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिन्दम 008a
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु 008c
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् 009a
वृत्रस्य देवाः सन्त्रस्ता न शान्तिमुपलेभिरे 009c
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत 010a
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् 010c
ततो नादः समभवद्वादित्राणां च निस्वनः 011a
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते 011c
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् 012a
न सम्भ्रमो न भीः काचिदास्था वा समजायत 012c
ततः समभवद्युद्धं त्रैलोक्यस्य भयङ्करम् 013a
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः 013c
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः 014a
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः 014c
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च 015a
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् 015c
पितामहपुरोगाश्च सर्वे देवगणास्तथा 016a
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् 016c
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ 017a
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् 017c
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः 018a
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् 018c
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः 019a
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे 019c
वृत्रश्च कुरुशार्दूल महामायो महाबलः 020a
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः 020c
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः 021a
रथन्तरेण तं तत्र वसिष्ठः समबोधयत् 021c
वसिष्ठ उवाच 022
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण 022a
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि 022c
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः 023a
सोमश्च भगवान्देवः सर्वे च परमर्षयः 023c
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा 024a
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर 024c
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः 025a
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर 025c
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः 026a
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै 026c
भीष्म उवाच 027
एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना 027a
अतीव वासवस्यासीद्बलमुत्तमतेजसः 027c
ततो बुद्धिमुपागम्य भगवान्पाकशासनः 028a
योगेन महता युक्तस्तां मायां व्यपकर्षत 028c
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः 029a
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् 029c
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया 029e
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः 030a
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा 030c
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः 031a
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः 031c
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् 032a
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः 032c
ते समासाद्य वरदं वासवं लोकपूजितम् 033a
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो 033c
महेश्वर उवाच 034
एष वृत्रो महाञ्शक्र बलेन महता वृतः 034a
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः 034c
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् 035a
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर 035c
अनेन हि तपस्तप्तं बलार्थममराधिप 036a
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ 036c
महत्त्वं योगिनां चैव महामायत्वमेव च 037a
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर 037c
एतद्वै मामकं तेजः समाविशति वासव 038a
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् 038c
शक्र उवाच 039
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् 039a
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ 039c
भीष्म उवाच 040
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे 040a
देवतानामृषीणां च हर्षान्नादो महानभूत् 040c
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः 041a
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः 041c
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् 042a
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत 042c
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा 043a
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि 043c
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः 044a
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् 044c