उशनोवाच 001
नमस्तस्मै भगवते देवाय प्रभविष्णवे 001a
यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम् 001c
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम 002a
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् 002c
भीष्म उवाच 003
तयोः संवदतोरेवमाजगाम महामुनिः 003a
सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै 003c
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा 004a
निषसादासने राजन्महार्हे मुनिपुङ्गवः 004c
तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् 005a
ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम् 005c
सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् 006a
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते 006c
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् 007a
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप 007c
सृजत्येष महाबाहो भूतग्रामं चराचरम् 008a
एष चाक्षिपते काले काले विसृजते पुनः 008c
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत 008e
नैष दानवता शक्यस्तपसा नैव चेज्यया 009a
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते 009c
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः 010a
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते 010c
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् 011a
बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह 011c
तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा 012a
यत्नेन महता चैवाप्येकजातौ विशुध्यते 012c
लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः 013a
बहु यत्नेन महता दोषनिर्हरणं तथा 013c
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् 014a
न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् 014c
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः 015a
विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति 015c
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु 016a
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै 016c
कर्मणा स्वेन रक्तानि विरक्तानि च दानव 017a
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु 017c
यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो 018a
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु 018c
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः 019a
स वै सृजति भूतानि स्थावराणि चराणि च 019c
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च 020a
एकादशविकारात्मा जगत्पिबति रश्मिभिः 020c
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च 021a
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च 021c
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् 022a
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते 022c
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम 023a
नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव 023c
रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् 024a
सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः 024c
अकर्मणः फलं चैव स एव परमव्ययः 025a
छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती 025c
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः 026a
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः 026c
श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः 027a
पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः 027c
मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा 028a
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् 028c
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे 028e
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् 029a
जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते 029c
संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये 030a
प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य 030c
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाढाः 031a
आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः 031c
वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् 032a
तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम् 032c
षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् 033a
रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् 033c
परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र 034a
गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः 034c
गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह 035a
गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र 035c
शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगुणस्य दैत्य 036a
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् 036c
कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः 037a
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति 037c
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् 038a
स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा 038c
स वै यदा सत्त्वगुणेन युक्तस्तमो व्यपोहन्घटते स्वबुद्ध्या 039a
स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च 039c
स तत्र संहारविसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः 040a
ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते 040c
हारिद्रवर्णस्तु प्रजाविसर्गान्सहस्रशस्तिष्ठति सञ्चरन्वै 041a
अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि 041c
गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव 042a
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु 042c
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति 043a
संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति 043c
सोऽस्मादथ भ्रश्यति कालयोगात्कृष्णे तले तिष्ठति सर्वकष्टे 044a
यथा त्वयं सिध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर 044c
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः 045a
संश्रित्य सन्धावति शुक्लमेतमष्टापरानर्च्यतमान्स लोकान् 045c
अष्टौ च षष्टिं च शतानि यानि मनोविरुद्धानि महाद्युतीनाम् 046a
शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव 046c
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः 047a
षष्ठस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य 047c
सप्तोत्तरं तेषु वसत्यनीशः संहारविक्षेपशतं सशेषम् 048a
तस्मादुपावृत्य मनुष्यलोके; ततो महान्मानुषतामुपैति 048c
तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् 049a
स सप्तकृत्वश्च परैति लोकान्संहारविक्षेपकृतप्रवासः 049c
सप्तैव संहारमुपप्लवानि सम्भाव्य सन्तिष्ठति सिद्धलोके 050a
ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च 050c
शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णोः परमस्य चैव 050e
संहारकाले परिदग्धकाया ब्रह्माणमायान्ति सदा प्रजा हि 051a
चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि 051c
प्रजाविसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः 052a
निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः 052c
ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या 053a
जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेण 053c
स यावदेवास्ति सशेषभुक्ते प्रजाश्च देव्यौ च तथैव शुक्ले 054a
तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रियरूपमेतत् 054c
शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन् 055a
ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै 055c
इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते 055e
वृत्र उवाच 056
एवं गते मे न विषादोऽस्ति कश्चित्सम्यक्च पश्यामि वचस्तवैतत् 056a
श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा 056c
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम् 057a
विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः 057c
स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् 057e
भीष्म उवाच 058
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् 058a
योजयित्वा तथात्मानं परं स्थानमवाप्तवान् 058c
युधिष्ठिर उवाच 059
अयं स भगवान्देवः पितामह जनार्दनः 059a
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा 059c
भीष्म उवाच 060
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा 060a
तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः 060c
तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् 061a
तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् 061c
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते 062a
स शेते भगवानप्सु योऽसावतिबलः प्रभुः 062c
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् 062e
सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः सञ्चरते च लोकान् 063a
स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् 063c
युधिष्ठिर उवाच 064
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः 064a
शुभा तस्मात्स सुखितो न शोचति पितामह 064c
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ 065a
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह 065c
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव 066a
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः 066c
वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे 067a
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ 067c
भीष्म उवाच 068
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः 068a
विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ 068c
प्रजाविसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा 069a
सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भूद्विमलाः स्थ सर्वे 069c