युधिष्ठिर उवाच 001
धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत 001a
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह 001c
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम 002a
प्राप्य जातिं मनुष्येषु देवैरपि पितामह 002c
कदा वयं करिष्यामः सन्न्यासं दुःखसञ्ज्ञकम् 003a
दुःखमेतच्छरीराणां धारणं कुरुसत्तम 003c
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः 004a
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह 004c
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः 005a
कदा वयं भविष्यामो राज्यं हित्वा परन्तप 005c
भीष्म उवाच 006
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् 006a
पुनर्भावोऽपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम् 006c
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः 007a
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ 007c
ईशोऽयं सततं देही नृपते पुण्यपापयोः 008a
तत एव समुत्थेन तमसा रुध्यतेऽपि च 008c
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः 009a
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः 009c
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः 010a
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते 010c
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः 011a
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् 011c
अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः 012a
त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः 012c
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप 013a
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् 013c
निर्जितेनासहायेन हृतराज्येन भारत 014a
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् 014c
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् 015a
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव 015c
वृत्र उवाच 016
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् 016a
न शोचामि न हृष्यामि भूतानामागतिं गतिम् 016c
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः 017a
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः 017c
क्षपयित्वा तु तं कालं गणितं कालचोदिताः 018a
सावशेषेण कालेन सम्भवन्ति पुनः पुनः 018c
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च 019a
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः 019c
एवं संसरमाणानि जीवान्यहमदृष्टवान् 020a
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् 020c
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च 021a
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च 021c
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते 022a
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा 022c
भीष्म उवाच 023
कालसङ्ख्यानसङ्ख्यातं सृष्टिस्थितिपरायणम् 023a
तं भाषमाणं भगवानुशना प्रत्यभाषत 023c
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे 023e
वृत्र उवाच 024
प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् 024a
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः 024c
गन्धानादाय भूतानां रसांश्च विविधानपि 025a
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा 025c
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा 026a
अजेयः सर्वभूतानामासं नित्यमपेतभीः 026c
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः 027a
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् 027c
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना 028a
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः 028c
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः 029a
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः 029c
नूनं तु तस्य तपसः सावशेषं ममास्ति वै 030a
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् 030c
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् 031a
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् 031c
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः 032a
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः 032c
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा 033a
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि 033c
इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह 034a
मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः 034c