युधिष्ठिर उवाच 001
किंशीलः किंसमाचारः किंविद्यः किम्परायणः 001a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् 001c
भीष्म उवाच 002
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः 002a
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् 002c
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः 003a
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् 003c
न चक्षुषा न मनसा न वाचा दूषयेदपि 004a
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् 004c
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् 005a
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् 005c
अतिवादांस्तितिक्षेत नाभिमन्येत्कथञ्चन 006a
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् 006c
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत् 007a
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः 007c
अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत् 008a
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः 008c
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 009a
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः 009c
अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः 010a
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् 010c
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः 011a
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः 011c
न चान्नदोषान्निन्देत न गुणानभिपूजयेत् 012a
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् 012c
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम् 013a
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत् 013c
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः 014a
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि 014c
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम् 015a
एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् 015c
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः 016a
एतत्पवित्रं परमं परिव्राजक आश्रमे 016c
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः 017a
अपूर्वचारकः सौम्यो अनिकेतः समाहितः 017c
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् 018a
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत् 018c
विजानतां मोक्ष एष श्रमः स्यादविजानताम् 019a
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् 019c
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् 020a
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते 020c