युधिष्ठिर उवाच 001
भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा 001a
अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः 001c
येयमर्थोद्भवा तृष्णा कथमेतां पितामह 002a
निवर्तयेम पापं हि तृष्णया कारिता वयम् 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003a
गीतं विदेहराजेन माण्डव्यायानुपृच्छते 003c
सुसुखं बत जीवामि यस्य मे नास्ति किञ्चन 004a
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन 004c
अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् 005a
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् 005c
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् 006a
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् 006c
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते 007a
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते 007c
किञ्चिदेव ममत्वेन यदा भवति कल्पितम् 008a
तदेव परितापाय नाशे सम्पद्यते पुनः 008c
न कामाननुरुध्येत दुःखं कामेषु वै रतिः 009a
प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत् 009c
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् 010a
कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह 010c
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये 011a
भयाभये च सन्त्यज्य सम्प्रशान्तो निरामयः 011c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः 012a
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् 012c
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् 013a
धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् 013c
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः 014a
पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः 014c