भीष्म उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001a
नारदस्य च संवादं देवलस्यासितस्य च 001c
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः 002a
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् 002c
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् 003a
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे 003c
असित उवाच 004
येभ्यः सृजति भूतानि कालो भावप्रचोदितः 004a
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः 004c
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः 005a
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् 005c
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् 006a
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः 006c
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ 007a
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् 007c
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् 008a
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः 008c
पञ्चैव तानि कालश्च भावाभावौ च केवलौ 009a
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ 009c
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि 010a
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा 010c
तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम् 011a
सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् 011c
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी 012a
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः 012c
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा 013a
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा 013c
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः 014a
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः 014c
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् 015a
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते 015c
चित्तमिन्द्रियसङ्घातात्परं तस्मात्परं मनः 016a
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः 016c
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् 017a
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति 017c
इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति 017e
चित्तमिन्द्रियसङ्घातं मनो बुद्धिं तथाष्टमीम् 018a
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः 018c
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् 019a
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि 019c
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते 020a
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ 020c
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी 021a
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके 021c
बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् 022a
ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया 022c
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा 023a
भवतीन्द्रियसन्न्यासादथ स्वपिति वै नरः 023c
इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि 024a
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् 024c
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः 025a
कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा 025c
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः 026a
सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः 026c
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः 027a
भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः 027c
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः 028a
तेषामष्टादशो देही यः शरीरे स शाश्वतः 028c
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् 029a
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते 029c
अथ वा सन्निपातोऽयं शरीरं पाञ्चभौतिकम् 030a
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् 030c
ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः 030e
महान्सन्धारयत्येतच्छरीरं वायुना सह 031a
तस्यास्य भावयुक्तस्य निमित्तं देहभेदने 031c
यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा 032a
पुण्यपापविनाशान्ते पुण्यपापसमीरितम् 032c
देहं विशति कालेन ततोऽयं कर्मसम्भवम् 032e
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः 033a
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् 033c
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः 034a
कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः 034c
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते 035a
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् 035c
नैव सञ्जायते जन्तुर्न च जातु विपद्यते 036a
याति देहमयं भुक्त्वा कदाचित्परमां गतिम् 036c
पुण्यपापमयं देहं क्षपयन्कर्मसञ्चयात् 037a
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति 037c
पुण्यपापक्षयार्थं च साङ्ख्यं ज्ञानं विधीयते 038a
तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् 038c