युधिष्ठिर उवाच 001
मोक्षः पितामहेनोक्त उपायान्नानुपायतः 001a
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत 001c
भीष्म उवाच 002
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् 002a
यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ 002c
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ 003a
एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् 003c
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् 004a
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु 004c
क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात् 005a
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति 005c
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् 006a
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् 006c
भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् 007a
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् 007c
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् 008a
लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् 008c
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया 009a
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् 009c
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः 010a
कारुण्येनात्मनो मानं तृष्णां च परितोषतः 010c
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् 011a
मौनेन बहुभाष्यं च शौर्येण च भयं जयेत् 011c
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा 012a
ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः 012c
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा 013a
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः 013c
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् 014a
परित्यज्य निषेवेत तथेमान्योगसाधनान् 014c
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा 015a
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः 015c
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च 016a
सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते 016c
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः 017a
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् 017c
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् 018a
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः 018c
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः 019a
तथा वाक्कायमनसां नियमः कामतोऽन्यथा 019c