युधिष्ठिर उवाच 001
कथं भवति पापात्मा कथं धर्मं करोति वा 001a
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति 001c
भीष्म उवाच 002
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि 002a
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः 002c
विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते 003a
प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ 003c
ततस्तदर्थं यतते कर्म चारभते पुनः 004a
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति 004c
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् 005a
ततो लोभः प्रभवति मोहश्च तदनन्तरम् 005c
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च 006a
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च 006c
व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते 007a
व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन 007c
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति 008a
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत 008c
उत्तरं न्यायसम्बद्धं ब्रवीति विधियोजितम् 009a
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः 009c
पापं चिन्तयते चैव प्रब्रवीति करोति च 010a
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः 010c
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः 011a
स नेह सुखमाप्नोति कुत एव परत्र वै 011c
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु 012a
यथा कुशलधर्मा स कुशलं प्रतिपद्यते 012c
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति 013a
कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते 013c
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते 014a
प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति 014c
सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः 015a
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै 015c
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् 016a
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति 016c
शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत 017a
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः 017c
स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर 018a
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा 018c
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति 019a
विरज्यते तदा कामान्न च धर्मं विमुञ्चति 019c
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् 020a
ततो मोक्षाय यतते नानुपायादुपायतः 020c
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च 021a
धर्मात्मा चैव भवति मोक्षं च लभते परम् 021c
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि 022a
पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत 022c
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर 023a
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती 023c