युधिष्ठिर उवाच 001
बहूनां यज्ञतपसामेकार्थानां पितामह 001a
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् 002a
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह 002c
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः 003a
उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे 003c
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला 004a
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् 004c
उपगम्य वने पृथ्वीं सर्वभूतविहिंसया 005a
अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परन्तप 005c
तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी 006a
यज्ञपत्नीत्वमानीता सत्येनानुविधीयते 006c
सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी 006e
मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम् 007a
अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः 007c
शुक्रस्य पुनराजातिरपध्यानादधर्मवित् 008a
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः 008c
वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम् 008e
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः 009a
मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः 009c
ततस्तु यज्ञे सावित्री साक्षात्तं सन्न्यमन्त्रयत् 010a
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् 010c
एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम् 011a
किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् 011c
सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः 012a
सत्येन सम्परिष्वज्य सन्दिष्टो गम्यतामिति 012c
ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत 013a
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् 013c
पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा 014a
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् 014c
ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा 015a
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् 015c
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने 016a
तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः 016c
तस्य तेन तु भावेन मृगहिंसात्मनस्तदा 017a
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया 017c
ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् 018a
समाधानं च भार्याया लेभे स तपसा परम् 018c
अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता 019a
सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम् 019c