युधिष्ठिर उवाच 001
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत 001a
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् 002a
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा 002c
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत 003a
यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम् 003c
स निश्चयमथो कृत्वा पूजयामास देवताः 004a
भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः 004c
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत् 005a
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् 005c
अथ सौम्येन वपुषा देवानुचरमन्तिके 006a
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् 006c
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत 007a
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् 007c
सन्निकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः 008a
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च 008c
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि 009a
बलिभिर्विविधैश्चापि पूजयामास तं द्विजः 009c
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा 010a
तस्योपकारे नियतामिमां वाचमुवाच ह 010c
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा 011a
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः 011c
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः 012a
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् 012c
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा 013a
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा 013c
शमेन तपसा चैव भक्त्या च निरुपस्कृतः 014a
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत 014c
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् 015a
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर 015c
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च 016a
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च 016c
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः 017a
निष्पत्य पतितो भूमौ देवानां भरतर्षभ 017c
ततस्तु देववचनान्मणिभद्रो महायशाः 018a
उवाच पतितं भूमौ कुण्डधार किमिष्यते 018c
कुण्डधार उवाच 019
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम 019a
अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम् 019c
भीष्म उवाच 020
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत् 020a
देवानामेव वचनात्कुण्डधारं महाद्युतिम् 020c
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव 021a
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव 021c
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् 021e
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् 022a
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः 022c
कुण्डधार उवाच 023
नाहं धनानि याचामि ब्राह्मणाय धनप्रद 023a
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् 023c
पृथिवीं रत्नपूर्णां वा महद्वा धनसञ्चयम् 024a
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः 024c
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु 025a
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः 025c
मणिभद्र उवाच 026
यदा धर्मफलं राज्यं सुखानि विविधानि च 026a
फलान्येवायमश्नातु कायक्लेशविवर्जितः 026c
भीष्म उवाच 027
ततस्तदेव बहुशः कुण्डधारो महायशाः 027a
अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः 027c
मणिभद्र उवाच 028
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च 028a
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः 028c
भीष्म उवाच 029
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर 029a
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् 029c
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः 030a
पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः 030c
ब्राह्मण उवाच 031
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् 031a
गच्छामि वनमेवाहं वरं धर्मेण जीवितुम् 031c
भीष्म उवाच 032
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः 032a
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा 032c
देवतातिथिशेषेण फलमूलाशनो द्विजः 033a
धर्मे चापि महाराज रतिरस्याभ्यजायत 033c
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः 034a
पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः 034c
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् 035a
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् 035c
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः 036a
कालेन महता तस्य दिव्या दृष्टिरजायत 036c
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम् 037a
तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम 037c
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः 038a
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत 038c
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् 039a
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम 039c
तस्य साक्षात्कुण्डधारो दर्शयामास भारत 040a
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः 040c
समागम्य स तेनाथ पूजां चक्रे यथाविधि 041a
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप 041c
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् 042a
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा 042c
ततो राज्ञां सहस्राणि मग्नानि निरये तदा 043a
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा 043c
कुण्डधार उवाच 044
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः 044a
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् 044c
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः 045a
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः 045c
भीष्म उवाच 046
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् 046a
निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान् 046c
कुण्डधार उवाच 047
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् 047a
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः 047c
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः 048a
एष शक्तोऽसि तपसा राज्यं दातुं धनानि च 048c
भीष्म उवाच 049
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे 049a
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः 049c
कामलोभानुबन्धेन पुरा ते यदसूयितम् 050a
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि 050c
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् 051a
सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत 051c
ततः सर्वानिमाल्ँलोकान्ब्राह्मणोऽनुचचार ह 052a
कुण्डधारप्रसादेन तपसा योजितः पुरा 052c
विहायसा च गमनं तथा सङ्कल्पितार्थता 053a
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः 053c
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः 054a
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः 054c
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः 055a
धने सुखकला काचिद्धर्मे तु परमं सुखम् 055c