कपिल उवाच 001
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः 001a
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् 001c
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति 001e
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् 002a
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः 002c
आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते 003a
निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम् 003c
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः 004a
उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः 004c
धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम् 004e
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः 005a
मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः 005c
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः 006a
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः 006c
आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु 007a
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि 007c
समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः 008a
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे 008c
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः 009a
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः 009c
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत् 010a
तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन 010c
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः 011a
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः 011c
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह 012a
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते 012c
दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः 012e
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः 013a
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः 013c
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः 013e
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् 014a
आगमाश्च यथाकालं सङ्कल्पाश्च यथाव्रतम् 014c
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम् 015a
ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु 015c
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः 015e
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम् 016a
स्वकर्मभिः संवृतानां तपो घोरत्वमागतम् 016c
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् 017a
अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् 017c
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः 018a
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः 018c
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः 019a
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् 019c
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः 020a
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः 020c
धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः 021a
आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः 021c
अत एवंविधा विप्राः पुराणा धर्मचारिणः 022a
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः 022c
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः 023a
आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् 023c
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः 024a
न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः 024c
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् 025a
कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम् 025c
एवं पक्वकषायाणामानन्त्येन श्रुतेन च 026a
सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः 026c
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् 027a
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः 027c
स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः 028a
सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते 028c
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः 029a
साधारणः केवलो वा यथाबलमुपास्यते 029c
गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति 030a
ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः 030c
स्यूमरश्मिरुवाच 031
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये 031a
मात्राभिर्धर्मलब्धाभिर्ये वा त्यागं समाश्रिताः 031c
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः 032a
एतदाचक्ष्व मे ब्रह्मन्यथातथ्येन पृच्छतः 032c
कपिल उवाच 033
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ये 033a
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि 033c
स्यूमरश्मिरुवाच 034
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः 034a
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते 034c
एकत्वे च पृथक्त्वे च विशेषो नान्य उच्यते 035a
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे 035c
कपिल उवाच 036
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः 036a
पक्वे कषाये वमनै रसज्ञाने न तिष्ठति 036c
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् 037a
अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा शमस्तथा 037c
पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् 038a
तद्विद्वाननुबुध्येत मनसा कर्मनिश्चयम् 038c
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः 039a
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् 039c
वेदांश्च वेदितव्यं च विदित्वा च यथास्थिति 040a
एवं वेदविदित्याहुरतोऽन्यो वातरेटकः 040c
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् 041a
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च 041c
एषैव निष्ठा सर्वस्य यद्यदस्ति च नास्ति च 042a
एतदन्तं च मध्यं च सच्चासच्च विजानतः 042c
समस्तत्याग इत्येव शम इत्येव निष्ठितः 043a
सन्तोष इत्यत्र शुभमपवर्गे प्रतिष्ठितम् 043c
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा जङ्गमं स्थावरं च 044a
सर्वं सुखं यच्छिवमुत्तमं च ब्रह्माव्यक्तं प्रभवश्चाव्ययश्च 044c
तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् 045a
एतैः शब्दैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय 045c