कपिल उवाच 001
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः 001a
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः 001c
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः 002a
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः 002c
अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः 003a
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः 003c
विशोका नष्टरजसस्तेषां लोकाः सनातनाः 004a
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् 004c
स्यूमरश्मिरुवाच 005
यद्येषा परमा निष्ठा यद्येषा परमा गतिः 005a
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते 005c
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः 006a
एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः 006c
गृहस्थ एव यजते गृहस्थस्तप्यते तपः 007a
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेजते 007c
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने 008a
प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते 008c
यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज 009a
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते 009c
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति 009e
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः 010a
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः 010c
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः 010e
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा 011a
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते 011c
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु 012a
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् 012c
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् 013a
दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् 013c
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः 014a
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् 014c
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् 015a
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु 015c
श्रिया विहीनैरलसैः पण्डितैरपलापितम् 016a
वेदवादापरिज्ञानं सत्याभासमिवानृतम् 016c
न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः 017a
ऊर्ध्वं यज्ञः पशुभिः सार्धमेति सन्तर्पितस्तर्पयते च कामैः 017c
न वेदानां परिभवान्न शाठ्येन न मायया 018a
महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति 018c
कपिल उवाच 019
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् 019a
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः 019c
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः 020a
ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः 020c
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः 021a
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 021c
चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा 022a
बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत् 022c
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य शृतं प्रगृह्णेत् 023a
क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य तत्पाणिपादं सुगुप्तम् 023c
नाक्रोशमर्छेन्न मृषा वदेच्च न पैशुनं जनवादं च कुर्यात् 024a
सत्यव्रतो मितभाषोऽप्रमत्तस्तथास्य वाग्द्वारमथो सुगुप्तम् 024c
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात् 025a
यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः 025c
न वीरपत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत 026a
भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत 026c
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः 027a
उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः 027c
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत 028a
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना 028c
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् 029a
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः 029c
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः 030a
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः 030c
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या 031a
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः 031c
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः 032a
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः 032c
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् 033a
अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् 033c
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च 034a
विगुणानि च पश्यन्ति तथानैकान्तिकानि च 034c
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः 035a
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि 035c
स्यूमरश्मिरुवाच 036
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा 036a
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे 036c
कपिल उवाच 037
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः 037a
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते 037c
स्यूमरश्मिरुवाच 038
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः 038a
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया 038c
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे 038e
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः 039a
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते 039c
अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् 039e
आगमो वेदवादस्तु तर्कशास्त्राणि चागमः 040a
यथागममुपासीत आगमस्तत्र सिध्यति 040c
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् 040e
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना 041a
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति 041c
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः 041e
नैव त्यागी न सन्तुष्टो नाशोको न निरामयः 042a
न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन 042c
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् 043a
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु 043c
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु 044a
एकमालम्बमानानां निर्णये किं निरामयम् 044c
कपिल उवाच 045
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु 045a
यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् 045c
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते 046a
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः 046c
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः 047a
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते 047c
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः 048a
कामद्वेषाभिभूतत्वादहङ्कारवशं गताः 048c
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः 049a
ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः 049c
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते 050a
तेषां तमःशरीराणां तम एव परायणम् 050c
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः 051a
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः 051c
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसम्भवाः 051e
एतद्बुद्ध्यानुपश्यन्तः सन्त्यजेयुः शुभाशुभम् 052a
परां गतिमभीप्सन्तो यतयः संयमे रताः 052c
स्यूमरश्मिरुवाच 053
सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् 053a
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः 053c
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः 054a
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः 054c
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः 055a
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः 055c
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः 056a
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे 056c
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः 056e
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः 057a
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् 057c
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् 057e
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् 058a
दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम् 058c
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् 059a
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः 059c
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया 060a
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा 060c
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः 061a
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् 061c