युधिष्ठिर उवाच 001
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः 001a
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह 001c
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः 002a
अदूरसम्प्रस्थितयोः किं स्विच्छ्रेयः पितामह 002c
भीष्म उवाच 003
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ 003a
उभौ महाफलौ तात सद्भिराचरितावुभौ 003c
अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः 004a
शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम् 004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 005a
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर 005c
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् 006a
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् 006c
तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः 007a
ज्ञानवान्नियताहारो ददर्श कपिलस्तदा 007c
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् 008a
स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत् 008c
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् 009a
हंहो वेदा यदि मता धर्माः केनापरे मताः 009c
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः 010a
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः 010c
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः 011a
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः 011c
कपिल उवाच 012
नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित् 012a
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् 012c
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति 013a
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः 013c
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः 014a
तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम् 014c
एवं विदित्वा सर्वार्थानारभेदिति वैदिकम् 015a
नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः 015c
अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः 016a
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् 016c
यद्यत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम् 017a
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि 017c
स्यूमरश्मिरुवाच 018
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः 018a
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते 018c
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये 019a
ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः 019c
तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते 020a
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः 020c
एतानि सह यज्ञेन प्रजापतिरकल्पयत् 021a
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः 021c
ते स्मान्योन्यञ्चराः सर्वे प्राणिनः सप्त सप्त च 022a
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम् 022c
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा 023a
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः 023c
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह 024a
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम् 024c
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि 025a
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश 025c
ऋचो यजूंषि सामानि यजमानश्च षोडशः 026a
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते 026c
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः 026e
आज्येन पयसा दध्ना शकृतामिक्षया त्वचा 027a
वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् 027c
एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते 027e
यज्ञं वहन्ति सम्भूय सहर्त्विग्भिः सदक्षिणैः 028a
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत 028c
यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः 029a
एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः 029c
न हिनस्ति ह्यारभते नाभिद्रुह्यति किञ्चन 030a
यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया 030c
यज्ञाङ्गान्यपि चैतानि यथोक्तानि नसंशयः 031a
विधिना विधियुक्तानि तारयन्ति परस्परम् 031c
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः 032a
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् 032c
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च 033a
अनु यज्ञं जगत्सर्वं यज्ञश्चानु जगत्सदा 033c
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् 034a
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि 034c
न तस्य त्रिषु लोकेषु परलोकभयं विदुः 035a
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः 035c
ऋचो यजूंषि सामानि स्तोभाश्च विधिचोदिताः 036a
यस्मिन्नेतानि सर्वाणि बहिरेव स वै द्विजः 036c
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज 037a
यच्चेतरैर्महायज्ञैर्वेद तद्भगवान्स्वतः 037c
तस्माद्ब्रह्मन्यजेतैव याजयेच्चाविचारयन् 038a
यजतः स्वर्गविधिना प्रेत्य स्वर्गफलं महत् 038c
नायं लोकोऽस्त्ययज्ञानां परश्चेति विनिश्चयः 039a
वेदवादविदश्चैव प्रमाणमुभयं तदा 039c