युधिष्ठिर उवाच 001
कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापयेत् 001a
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह 002c
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् 003a
वधाय नीयमानेषु पितुरेवानुशासनात् 003c
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् 004a
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति 004c
द्युमत्सेन उवाच 005
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् 005a
दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत् 005c
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे 006a
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः 006c
सत्यवानुवाच 007
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः 007a
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति 007c
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः 008a
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् 008c
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः 009a
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि 009c
दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः 010a
भार्या माता पिता पुत्रो हन्यते पुरुषे हते 010c
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् 010e
असाधुश्चैव पुरुषो लभते शीलमेकदा 011a
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा 011c
न मूलघातः कर्तव्यो नैष धर्मः सनातनः 012a
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते 012c
उद्वेजनेन बन्धेन विरूपकरणेन च 013a
वधदण्डेन ते क्लेश्या न पुरोऽहितसम्पदा 013c
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः 014a
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः 014c
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् 015a
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् 015c
गरीयांसो गरीयांसमपराधे पुनः पुनः 016a
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा 016c
द्युमत्सेन उवाच 017
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः 017a
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते 017c
अहन्यमानेषु पुनः सर्वमेव पराभवेत् 018a
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः 018c
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः 019a
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् 019c
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते 020a
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः 020c
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः 021a
न गन्धर्वपितॄणां च कः कस्येह न कश्चन 021c
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् 022a
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु 022c
सत्यवानुवाच 023
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया 023a
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु 023c
द्युमत्सेन उवाच 024
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः 024a
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च 024c
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् 025a
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः 025c
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते 026a
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः 026c
आत्मानमसमाधाय समाधित्सति यः परान् 027a
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् 027c
यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम् 028a
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते 028c
आत्मैवादौ नियन्तव्यो दुष्कृतं सन्नियच्छता 029a
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् 029c
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति 030a
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् 030c
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् 030e
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः 031a
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च 031c
एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् 032a
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा 032c
द्वापरे तु द्विपादेन पादेन त्वपरे युगे 032e
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह 033a
भवेत्कालविशेषेण कला धर्मस्य षोडशी 033c
अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत् 034a
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् 034c
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् 035a
भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत् 035c