युधिष्ठिर उवाच 001
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा 001a
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002a
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले 002c
चिरकारिक भद्रं ते भद्रं ते चिरकारिक 003a
चिरकारी हि मेधावी नापराध्यति कर्मसु 003c
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः 004a
चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते 004c
चिरं सञ्चिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् 005a
चिरकार्याभिसम्पत्तेश्चिरकारी तथोच्यते 005c
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते 006a
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना 006c
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् 007a
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति 007c
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः 008a
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् 008c
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् 009a
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् 009c
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् 010a
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् 010c
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् 011a
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् 011c
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम् 012a
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् 012c
पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति 013a
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च 013c
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः 014a
विज्ञानं मे कथं न स्याद्बुबुधे चात्मसम्भवम् 014c
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि 015a
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये 015c
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः 016a
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः 016c
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता 017a
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति 017c
तस्मात्पितुर्वचः कार्यं न विचार्यं कथञ्चन 018a
पातकान्यपि पूयन्ते पितुर्वचनकारिणः 018c
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने 019a
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा 019c
पिता स्वर्गः पिता धर्मः पिता परमकं तपः 020a
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः 020c
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता 021a
निष्कृतिः सर्वपापानां पिता यदभिनन्दति 021c
मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते 022a
क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति 022c
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् 023a
पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम् 023c
यो ह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः 024a
अस्य मे जननी हेतुः पावकस्य यथारणिः 024c
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः 024e
न च शोचति नाप्येनं स्थाविर्यमपकर्षति 025a
श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते 025c
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः 026a
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् 026c
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा 027a
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः 027c
तदा स वृद्धो भवति यदा भवति दुःखितः 028a
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते 028c
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः 029a
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा 029c
कुक्षिसन्धारणाद्धात्री जननाज्जननी स्मृता 030a
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः 030c
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् 031a
चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः 031c
दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल 032a
तं माता वा पिता वेद भूतार्थो मातरि स्थितः 032c
माता जानाति यद्गोत्रं माता जानाति यस्य सः 033a
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः 033c
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च 034a
यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् 034c
भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः 035a
गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः 035c
एवं स्त्री नापराध्नोति नर एवापराध्यति 036a
व्युच्चरंश्च महादोषं नर एवापराध्यति 036c
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् 037a
तस्यात्मना तु सदृशमात्मानं परमं ददौ 037c
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः 037e
यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये 038a
तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः 038c
यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् 039a
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः 039c
देवतानां समावायमेकस्थं पितरं विदुः 040a
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् 040c
एवं विमृशतस्तस्य चिरकारितया बहु 041a
दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता 041c
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः 042a
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् 042c
सोऽब्रवीद्दुःखसन्तप्तो भृशमश्रूणि वर्तयन् 043a
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः 043c
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरन्दरः 044a
अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः 044c
समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः 045a
अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः 045c
परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च 046a
अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः 046c
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः 047a
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति 047c
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः 048a
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे 048c
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् 049a
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति 049c
अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः 050a
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् 050c
चिरकारिक भद्रं ते भद्रं ते चिरकारिक 051a
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः 051c
त्राहि मां मातरं चैव तपो यच्चार्जितं मया 052a
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः 052c
सहजं चिरकारित्वं चिरप्राज्ञतया तव 053a
सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः 053c
चिरमाशंसितो मात्रा चिरं गर्भेण धारितः 054a
सफलं चिरकारित्वं कुरु त्वं चिरकारिक 054c
चिरायते च सन्तापाच्चिरं स्वपिति वारितः 055a
आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक 055c
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा 056a
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके 056c
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः 057a
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे 057c
गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि 058a
पत्नीं चैव निराकारां परामभ्यगमन्मुदम् 058c
न हि सा तेन सम्भेदं पत्नी नीता महात्मना 059a
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः 059c
हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते 060a
विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु 060c
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् 061a
शस्त्रग्रहणचापल्यं संवृणोति भयादिति 061c
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि 062a
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः 062c
एवं स गौतमः पुत्रं प्रीतिहर्षसमन्वितः 063a
अभिनन्द्य महाप्राज्ञ इदं वचनमब्रवीत् 063c
चिरकारिक भद्रं ते चिरकारी चिरं भव 064a
चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः 064c
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः 065a
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् 065c
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् 066a
चिरेण हि कृतं मित्रं चिरं धारणमर्हति 066c
रागे दर्पे च माने च द्रोहे पापे च कर्मणि 067a
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते 067c
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च 068a
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते 068c
एवं स गौतमस्तस्य प्रीतः पुत्रस्य भारत 069a
कर्मणा तेन कौरव्य चिरकारितया तया 069c
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः 070a
चिरेण निश्चयं कृत्वा चिरं न परितप्यते 070c
चिरं धारयते रोषं चिरं कर्म नियच्छति 071a
पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते 071c
चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् 072a
चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् 072c
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च 073a
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् 073c
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् 074a
चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते 074c
उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः 075a
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा 075c