भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना 001c
छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम् 002a
गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः 002c
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् 003a
हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता 003c
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः 004a
संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता 004c
सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् 005a
कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः 005c
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता 006a
अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता 006c
उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः 007a
आचार इत्यनाचाराः कृपणाः फलहेतवः 007c
यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः 008a
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते 008c
मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् 009a
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् 009c
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् 010a
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः 010c
पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् 010e
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः 011a
यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् 011c
महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् 011e
युधिष्ठिर उवाच 012
शरीरमापदश्चापि विवदन्त्यविहिंसतः 012a
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति 012c
भीष्म उवाच 013
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा 013a
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् 013c