तुलाधार उवाच 001
सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः 001a
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा 001c
एते शकुन्ता बहवः समन्ताद्विचरन्ति हि 002a
तवोत्तमाङ्गे सम्भूताः श्येनाश्चान्याश्च जातयः 002c
आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः 003a
पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः 003c
सम्भावयन्ति पितरं त्वया सम्भाविताः खगाः 004a
असंशयं पिता च त्वं पुत्रानाह्वय जाजले 004c
भीष्म उवाच 005
ततो जाजलिना तेन समाहूताः पतत्रिणः 005a
वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल 005c
अहिंसादिकृतं कर्म इह चैव परत्र च 006a
स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम् 006c
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति 007a
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 007c
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः 008a
देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि 008c
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः 009a
मीमांसित्वोभयं देवाः सममन्नमकल्पयन् 009c
प्रजापतिस्तानुवाच विषमं कृतमित्युत 010a
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् 010c
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः 010e
अश्रद्दधान एवैको देवानां नार्हते हविः 011a
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः 011c
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी 012a
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम् 012c
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह 013a
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः 013c
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना 014a
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः 014c
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः 015a
वयं जिज्ञासमानास्त्वा सम्प्राप्ता धर्मदर्शनात् 015c
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् 016a
श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः 016c
स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले 016e
एवं बहुमतार्थं च तुलाधारेण भाषितम् 017a
सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः 017c
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः 018a
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत 018c
ततोऽचिरेण कालेन तुलाधारः स एव च 019a
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् 019c
स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् 019e
समानां श्रद्दधानानां संयतानां सुचेतसाम् 020a
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते 020c
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप 021a
सावित्री प्रसवित्री च जीवविश्वासिनी तथा 021c
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत 022a
यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि 022c