जाजलिरुवाच 001
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया 001a
स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते 001c
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जीवसि 002a
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज 002c
यतो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि 003a
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलम् 003c
तुलाधार उवाच 004
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः 004a
न च यज्ञं विनिन्दामि यज्ञवित्तु सुदुर्लभः 004c
नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः 005a
स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः 005c
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः सम्प्रवर्तितम् 006a
वेदवादानविज्ञाय सत्याभासमिवानृतम् 006c
इदं देयमिदं देयमिति नान्तं चिकीर्षति 007a
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले 007c
तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः 007e
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा 008a
पूजा स्याद्देवतानां हि यथा शास्त्रनिदर्शनम् 008c
इष्टापूर्तादसाधूनां विषमा जायते प्रजा 009a
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः 009c
यजमानो यथात्मानमृत्विजश्च तथा प्रजाः 010a
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् 010c
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपतिष्ठति 011a
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः 011c
तस्मात्स्वनुष्ठितात्पूर्वे सर्वान्कामांश्च लेभिरे 012a
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् 012c
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किञ्चन 012e
शङ्कमानाः फलं यज्ञे ये यजेरन्कथञ्चन 013a
जायन्तेऽसाधवो धूर्ता लुब्धा वित्तप्रयोजनाः 013c
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा 014a
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः 014c
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम 014e
कर्तव्यमिति कर्तव्यं वेत्ति यो ब्राह्मणोभयम् 015a
ब्रह्मैव वर्तते लोके नैति कर्तव्यतां पुनः 015c
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम 016a
सर्वभूतोपघातश्च फलभावे च संयमः 016c
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मतृप्तयः 017a
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः 017c
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः 018a
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यमरानपि 018c
अखिलं दैवतं सर्वं ब्रह्म ब्राह्मणसंश्रितम् 019a
तृप्यन्ति तृप्यतो देवास्तृप्तास्तृप्तस्य जाजले 019c
यथा सर्वरसैस्तृप्तो नाभिनन्दति किञ्चन 020a
तथा प्रज्ञानतृप्तस्य नित्यं तृप्तिः सुखोदया 020c
धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास्तथा 021a
अस्ति नस्तत्त्वतो भूय इति प्रज्ञागवेषिणः 021c
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः 022a
अतीव तत्सदा पुण्यं पुण्याभिजनसंहितम् 022c
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च 023a
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः 023c
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनैः 024a
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया 024c
वनस्पतीनोषधीश्च फलमूलं च ते विदुः 025a
न चैतानृत्विजो लुब्धा याजयन्ति धनार्थिनः 025c
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः 026a
परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया 026c
प्रापयेयुः प्रजाः स्वर्गं स्वधर्मचरणेन वै 027a
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले 027c
प्रयुञ्जते यानि यज्ञे सदा प्राज्ञा द्विजर्षभ 028a
तेन ते देवयानेन पथा यान्ति महामुने 028c
आवृत्तिस्तत्र चैकस्य नास्त्यावृत्तिर्मनीषिणाम् 029a
उभौ तौ देवयानेन गच्छतो जाजले पथा 029c
स्वयं चैषामनडुहो युज्यन्ति च वहन्ति च 030a
स्वयमुस्राश्च दुह्यन्ते मनःसङ्कल्पसिद्धिभिः 030c
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणैः 031a
यस्तथाभावितात्मा स्यात्स गामालब्धुमर्हति 031c
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते नतादृशाः 032a
बुद्धित्यागं पुरस्कृत्य तादृशं प्रब्रवीमि ते 032c
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् 033a
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः 033c
नाश्रावयन्न च यजन्न ददद्ब्राह्मणेषु च 034a
ग्राम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले 034c
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् 034e
जाजलिरुवाच 035
न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि त्वा वाणिज कष्टमेतत् 035a
पूर्वे पूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति 035c
अस्मिन्नेवात्मतीर्थे न पशवः प्राप्नुयुः सुखम् 036a
अथ स्वकर्मणा केन वाणिज प्राप्नुयात्सुखम् 036c
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते 036e
तुलाधार उवाच 037
उत यज्ञा उतायज्ञा मखं नार्हन्ति ते क्वचित् 037a
आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः 037c
वालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् 037e
पत्नीं चानेन विधिना प्रकरोति नियोजयन् 038a
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते 038c
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः 039a
जाजले तीर्थमात्मैव मा स्म देशातिथिर्भव 039c
एतानीदृशकान्धर्मानाचरन्निह जाजले 040a
कारणैर्धर्ममन्विच्छन्न लोकानाप्नुते शुभान् 040c
भीष्म उवाच 041
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति 041a
उपपत्त्या हि सम्पन्नान्नित्यं सद्भिर्निषेवितान् 041c