भीष्म उवाच 001
इत्युक्तः स तदा तेन तुलाधारेण धीमता 001a
प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः 001c
विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज 002a
वनस्पतीनोषधीश्च तेषां मूलफलानि च 002c
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम् 003a
एतदाचक्ष्व मे सर्वं निखिलेन महामते 003c
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना 004a
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् 004c
जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप 004e
वेदाहं जाजले धर्मं सरहस्यं सनातनम् 005a
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः 005c
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः 006a
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले 006c
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् 007a
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा 007c
रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून् 008a
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया 008c
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः 009a
कर्मणा मनसा वाचा स धर्मं वेद जाजले 009c
नाहं परेषां कर्माणि प्रशंसामि शपामि वा 010a
आकाशस्येव विप्रर्षे पश्यल्ँलोकस्य चित्रताम् 010c
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये 011a
समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम् 011c
इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः 012a
तुला मे सर्वभूतेषु समा तिष्ठति जाजले 012c
इति मां त्वं विजानीहि सर्वलोकस्य जाजले 013a
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् 013c
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा 014a
देवैरपिहितद्वाराः सोपमा पश्यतो मम 014c
यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति 015a
तथार्थकामभोगेषु ममापि विगता स्पृहा 015c
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति 016a
यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः 016c
यदा न कुरुते भावं सर्वभूतेषु पापकम् 017a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा 017c
न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन 018a
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् 018c
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव 019a
वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम् 019c
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् 020a
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् 020c
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः 021a
तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते 021c
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् 022a
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा 022c
नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया 023a
यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित् 023c
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः 024a
तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया 024c
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः 024e
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन 025a
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने 025c
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव 026a
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः 026c
सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा 027a
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत 027c
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः 027e
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा 028a
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते 028c
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् 029a
स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् 029c
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन 029e
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन 030a
सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने 030c
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 031a
न स धर्ममवाप्नोति इह लोके परत्र च 031c
सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः 032a
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 032c
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् 033a
ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले 033c
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः 034a
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा 034c
अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले 035a
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् 035c
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः 036a
उपलभ्यान्तरा चान्यानाचारानवबुध्यते 036c
ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् 037a
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च 037c
हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे 038a
मानुषा मानुषानेव दासभोगेन भुञ्जते 038c
वधबन्धविरोधेन कारयन्ति दिवानिशम् 039a
आत्मना चापि जानासि यद्दुःखं वधताडने 039c
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् 040a
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः 040c
तानि जीवानि विक्रीय का मृतेषु विचारणा 041a
का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा 041c
अदंशमशके देशे सुखं संवर्धितान्पशून् 042a
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः 042c
बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान् 042e
वाहसम्पीडिता धुर्याः सीदन्त्यविधिनापरे 043a
न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा 043c
कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा 044a
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् 044c
तथैवानडुहो युक्तान्समवेक्षस्व जाजले 044e
अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति 045a
महच्चकाराकुशलं पृषध्रो गालभन्निव 045c
ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् 046a
गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् 046c
अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम् 046e
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् 047a
ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले 047c
भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः 047e
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः 048a
ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन् 048c
ईदृशानशिवान्घोरानाचारानिह जाजले 049a
केवलाचरितत्वात्तु निपुणान्नावबुध्यसे 049c
कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत् 050a
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले 050c
समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये 051a
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः 051c
उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते 052a
सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः 052c