भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001a
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह 001c
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः 002a
सागरोद्देशमागम्य तपस्तेपे महातपाः 002c
नियतो नियताहारश्चीराजिनजटाधरः 003a
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः 003c
स कदाचिन्महातेजा जलवासो महीपते 004a
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः 004c
स चिन्तयामास मुनिर्जलमध्ये कदाचन 005a
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् 005c
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे 006a
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै 006c
स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः 007a
अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि 007c
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः 008a
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम 008c
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः 009a
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् 009c
इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् 010a
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम 010c
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा 011a
वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः 011c
युधिष्ठिर उवाच 012
किं कृतं सुकृतं कर्म तात जाजलिना पुरा 012a
येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि 012c
भीष्म उवाच 013
अतीव तपसा युक्तो घोरेण स बभूव ह 013a
नद्युपस्पर्शनरतः सायं प्रातर्महातपाः 013c
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः 014a
वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया 014c
सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत 015a
वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः 015c
वतातपसहो ग्रीष्मे न च धर्ममविन्दत 016a
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् 016c
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः 017a
अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः 017c
अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो 018a
अरण्यगमनान्नित्यं मलिनो मलसंयुताः 018c
स कदाचिन्निराहारो वायुभक्षो महातपाः 019a
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् 019c
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत 020a
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः 020c
स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती 021a
कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः 021c
यदा स न चलत्येव स्थाणुभूतो महातपाः 022a
ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा 022c
अतीतास्वथ वर्षासु शरत्काल उपस्थिते 023a
प्राजापत्येन विधिना विश्वासात्काममोहितौ 023c
तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ 024a
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः 024c
बुद्ध्वा च स महातेजा न चचालैव जाजलिः 025a
धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् 025c
अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि 026a
आश्वासितौ वै वसतः सम्प्रहृष्टौ तदा विभो 026c
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः 027a
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः 027c
स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः 028a
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः 028c
ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः 029a
बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् 029c
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः 030a
बभूव परमप्रीतस्तदा मतिमतां वरः 030c
तथा तानभिसंवृद्धान्दृष्ट्वा चाप्नुवतां मुदम् 031a
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह 031c
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् 032a
सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः 032c
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम् 033a
त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः 033c
अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप 034a
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः 034c
कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः 035a
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः 035c
क्रमेण च पुनः सर्वे दिवसानि बहून्यपि 036a
नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा 036c
कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः 037a
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः 037c
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः 038a
सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् 038c
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः 039a
सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाभवन् 039c
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् 040a
उदयन्तमथादित्यमभ्यगच्छन्महातपाः 040c
सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः 041a
आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै 041c
अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः 042a
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले 042c
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः 043a
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज 043c
सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया 044a
पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः 044c
कालेन महतागच्छत्स तु वाराणसीं पुरीम् 045a
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः 045c
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः 046a
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् 046c
तुलाधार उवाच 047
आयानेवासि विदितो मम ब्रह्मन्न संशयः 047a
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम 047c
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् 048a
न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन 048c
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः 049a
क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया 049c
जातपक्षा यदा ते च गताश्चारीमितस्ततः 050a
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज 050c
खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम 050e
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह 051a
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम 051c