युधिष्ठिर उवाच 001
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् 001a
प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः 001c
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया 002a
इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव 002c
इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च 003a
न धर्मः परिपाठेन शक्यो भारत वेदितुम् 003c
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः 004a
आपदस्तु कथं शक्याः परिपाठेन वेदितुम् 004c
सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः 005a
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम् 005c
दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन् 006a
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् 006c
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः 007a
वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम् 007c
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे 008a
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव 008c
आम्नायवचनं सत्यमित्ययं लोकसङ्ग्रहः 009a
आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः 009c
ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते 010a
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः 010c
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः 011a
या या विक्रियते संस्था ततः सापि प्रणश्यति 011c
विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा 012a
अणीयान्क्षुरधाराया गरीयान्पर्वतादपि 012c
गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते 013a
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् 013c
निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत 014a
स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते 014c
कामादन्ये क्षयादन्ये कारणैरपरैस्तथा 015a
असन्तो हि वृथाचारं भजन्ते बहवोऽपरे 015c
धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु 016a
अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत 016c
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः 017a
न हि सर्वहितः कश्चिदाचारः सम्प्रदृश्यते 017c
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः 018a
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया 018c
येनैवान्यः प्रभवति सोऽपरानपि बाधते 019a
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् 019c
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः 020a
तेनाचारेण पूर्वेण संस्था भवति शाश्वती 020c