युधिष्ठिर उवाच 001
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः 001a
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह 001c
धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत् 002a
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह 002c
भीष्म उवाच 003
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् 003a
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् 003c
अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे 004a
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः 004c
उभयत्र सुखोदर्क इह चैव परत्र च 004e
अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति 005a
न च पापकृतः पापान्मुच्यन्ते केचिदापदि 005c
अपापवादी भवति यदा भवति धर्मवित् 006a
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे 006c
यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः 007a
रमते निर्हरन्स्तेनः परवित्तमराजके 007c
यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति 008a
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः 008c
अभीतः शुचिरभ्येति राजद्वारमशङ्कितः 009a
न हि दुश्चरितं किञ्चिदन्तरात्मनि पश्यति 009c
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 010a
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् 010c
अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक् 011a
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः 011c
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम् 011e
न हर्तव्यं परधनमिति धर्मः सनातनः 012a
मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम् 012c
यदा नियतिदौर्बल्यमथैषामेव रोचते 012e
न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा 013a
तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन 013c
असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः 014a
न किञ्चित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत् 014c
सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान् 015a
बहुधाचरितं पापमन्यत्रैवानुपश्यति 015c
मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा 016a
न हि दुश्चरितं किञ्चिदात्मनोऽन्येषु पश्यति 016c
दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः 017a
तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम् 017c
यदा नियतिकार्पण्यमथैषामेव रोचते 018a
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा 018c
यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः 019a
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः 019c
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति 020a
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः 020c
जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत् 021a
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत् 021c
अतिरिक्तैः संविभजेद्भोगैरन्यानकिञ्चनान् 022a
एतस्मात्कारणाद्धात्रा कुसीदं सम्प्रवर्तितम् 022c
यस्मिंस्तु देवाः समये सन्तिष्ठेरंस्तथा भवेत् 023a
अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना 023c
सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः 024a
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर 024c
लोकसङ्ग्रहसंयुक्तं विधात्रा विहितं पुरा 025a
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम् 025c
धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम 026a
तस्मादनार्जवे बुद्धिर्न कार्या ते कथञ्चन 026c