नारद उवाच 001
विनीय दुःखमबला सा त्वतीवायतेक्षणा 001a
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा 001c
त्वया सृष्टा कथं नारी मादृशी वदतां वर 002a
रौद्रकर्माभिजायेत सर्वप्राणिभयङ्करी 002c
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे 003a
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा 003c
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः 004a
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे 004c
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि 005a
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम् 005c
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः 006a
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता 006c
यमस्य भवने देव यात्यन्ते पापकर्मिणः 007a
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो 007c
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह 008a
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर 008c
पितामह उवाच 009
मृत्यो सङ्कल्पिता मे त्वं प्रजासंहारहेतुना 009a
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय 009c
एतदेवमवश्यं हि भविता नैतदन्यथा 010a
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे 010c
नारद उवाच 011
एवमुक्ता महाबाहो मृत्युः परपुरञ्जय 011a
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी 011c
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी 012a
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः 012c
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान् 013a
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत 013c
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते 014a
सा कन्यापजगामास्य समीपादिति नः श्रुतम् 014c
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा 015a
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात् 015c
सा तत्र परमं देवी तपोऽचरत दुश्चरम् 016a
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च 016c
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् 017a
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् 017c
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा 018a
तथैवैकपदे तात पुनरन्यानि सप्त सा 018c
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद 019a
भूयः पद्मायुतं तात मृगैः सह चचार सा 019c
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम् 020a
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव 020c
ततो जगाम सा कन्या कौशिकीं भरतर्षभ 021a
तत्र वायुजलाहारा चचार नियमं पुनः 021c
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् 022a
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया 022c
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे 023a
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः 023c
तस्थौ पितामहं चैव तोषयामास यत्नतः 023e
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः 024a
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम 024c
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् 025a
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये 025c
तामधर्मभयत्रस्तां पुनरेव च याचतीम् 026a
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः 026c
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे 027a
मया ह्युक्तं मृषा भद्रे भविता नेह किञ्चन 027c
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते 028a
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा 028c
इममन्यं च ते कामं ददामि मनसेप्सितम् 029a
न त्वा दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः 029c
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि 030a
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् 030c
सैवमुक्ता महाराज कृताञ्जलिरुवाच ह 031a
पुनरेव महात्मानं नेति देवेशमव्ययम् 031c
तामब्रवीत्तदा देवो मृत्यो संहर मानवान् 032a
अधर्मस्ते न भविता तथा ध्यास्याम्यहं शुभे 032c
यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् 033a
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो 033c
सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः 034a
एवं धर्मस्त्वामुपैष्यत्यमेयो न चाधर्मं लप्स्यसे तुल्यवृत्तिः 034c
एवं धर्मं पालयिष्यस्यथोक्तं न चात्मानं मज्जयिष्यस्यधर्मे 035a
तस्मात्कामं रोचयाभ्यागतं त्वं संयोज्याथो संहरस्वेह जन्तून् 035c
सा वै तदा मृत्युसञ्ज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम् 036a
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य निर्मोह्य हन्ति 036c
मृत्योर्ये ते व्याधयश्चाश्रुपाता मनुष्याणां रुज्यते यैः शरीरम् 037a
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुध्य बुद्ध्या 037c
सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव 038a
एवं सर्वे मानवाः प्राणनान्ते गत्वावृत्ता देववद्राजसिंह 038c
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः 039a
नानावृत्तिर्देहिनां देहभेदे तस्माद्वायुर्देवदेवो विशिष्टः 039c
सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टाः सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः 040a
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्य ते मोदते ह 040c
एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् 041a
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् 041c