स्थाणुरुवाच 001
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो 001a
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह 001c
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः 002a
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो 002c
प्रजापतिरुवाच 003
न कुप्ये न च मे कामो न भवेरन्प्रजा इति 003a
लाघवार्थं धरण्यास्तु ततः संहार इष्यते 003c
इयं हि मां सदा देवी भारार्ता समचोदयत् 004a
संहारार्थं महादेव भारेणाप्सु निमज्जति 004c
यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन् 005a
संहारमासां वृद्धानां ततो मां क्रोध आविशत् 005c
स्थाणुरुवाच 006
संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर 006a
मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः 006c
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् 007a
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् 007c
तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् 008a
प्रसीद भगवन्साधो वर एष वृतो मया 008c
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन 009a
तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा 009c
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया 010a
यथेमे जन्तवः सर्वे निवर्तेरन्परन्तप 010c
अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः 011a
अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर 011c
त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम् 012a
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः 012c
नारद उवाच 013
श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः 013a
तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना 013c
ततोऽग्निमुपसङ्गृह्य भगवाल्ँलोकपूजितः 014a
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः 014c
उपसंहरतस्तस्य तमग्निं रोषजं तदा 015a
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः 015c
कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा 016a
दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता 016c
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् 017a
ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ 017c
तामाहूय तदा देवो लोकानामादिरीश्वरः 018a
मृत्यो इति महीपाल जहि चेमाः प्रजा इति 018c
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च 019a
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः 019c
अविशेषेण चैव त्वं प्रजाः संहर भामिनि 020a
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि 020c
एवमुक्ता तु सा देवी मृत्युः कमलमालिनी 021a
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि 021c
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः 022a
मानवानां हितार्थाय ययाचे पुनरेव च 022c