युधिष्ठिर उवाच 001
य इमे पृथिवीपालाः शेरते पृथिवीतले 001a
पृतनामध्य एते हि गतसत्त्वा महाबलाः 001c
एकैकशो भीमबला नागायुतबलास्तथा 002a
एते हि निहताः सङ्ख्ये तुल्यतेजोबलैर्नरैः 002c
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा 003a
विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः 003c
अथ चेमे महाप्राज्ञ शेरते हि गतासवः 004a
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु 004c
इमे मृता नृपतयः प्रायशो भीमविक्रमाः 005a
तत्र मे संशयो जातः कुतः सञ्ज्ञा मृता इति 005c
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः 006a
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह 006c
भीष्म उवाच 007
पुरा कृतयुगे तात राजासीदविकम्पकः 007a
स शत्रुवशमापन्नः सङ्ग्रामे क्षीणवाहनः 007c
तत्र पुत्रो हरिर्नाम नारायणसमो बले 008a
स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः 008c
स राजा शत्रुवशगः पुत्रशोकसमन्वितः 009a
यदृच्छयाशान्तिपरो ददर्श भुवि नारदम् 009c
स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः 010a
शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा 010c
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः 011a
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा 011c
राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम् 012a
यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप 012c
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः 013a
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः 013c
न ह्यन्तरमभूत्किञ्चित्क्वचिज्जन्तुभिरच्युत 014a
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप 014c
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते 015a
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् 015c
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत 016a
तेन सर्वा दिशो राजन्ददाह स पितामहः 016c
ततो दिवं भुवं खं च जगच्च सचराचरम् 017a
ददाह पावको राजन्भगवत्कोपसम्भवः 017c
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च 018a
महता कोपवेगेन कुपिते प्रपितामहे 018c
ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः 019a
जगाद शरणं देवो ब्रह्माणं परवीरहा 019c
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया 020a
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् 020c
करवाण्यद्य कं कामं वरार्होऽसि मतो मम 021a
कर्ता ह्यस्मि प्रियं शम्भो तव यद्धृदि वर्तते 021c